________________ चतुःशरणप्रकीर्णकम् : श्लोक-४ दृश्यन्तेऽवबुध्यन्ते यथावस्थितस्वरूपेण पदार्था अनेनेति दर्शनं सम्यक्त्वम्, तस्याचारो दर्शनाचारः, “निस्संकिये"त्याद्यष्टविधस्तस्य विशोधिः चउवीसायत्थएणं ति चतुर्विंशतेरात्मनां जीवानां तीर्थङ्करसम्बन्धिनां स्तवनं स्तवः क्रियते यत्र स चतुर्विंशत्यात्मस्तवस्तेन चतुर्विंशत्यात्मस्तवेन / चउवीसाएत्थएणं ति पाठे चतुर्विंशतिःस्तवेन क्रियते - यदाह - __“चउवीसत्थएणं भंते ! जीवे किं जणयइ ? - चउवीसत्थएणं दसणविसोही जणयइ" [उत्तरा. अध्य. 29 सू. 9] त्ति / किम्भूतेनेत्याह - अञ्चन्मय त्ति अत्यद्भुता अतिशायिनो लोकोद्योतकरादयो ये गुणास्तेषाम्, यदुत्कीर्तनं वर्णनं तद्रूपेण, केषां तद् ? इत्याह - जिणवरिंदाणं ति रागादिजयाज्जिनाः, उपशान्तमोहादयस्तेषां मध्ये वराः घातिकर्मचतुष्टयक्षीणेन [क्षयेण] सामान्यकेवलिनस्तेषामिन्द्रा इव इन्द्रास्तीर्थङ्करा जिनवरेन्द्रास्तेषामित्यर्थः / / 3 / / ... उक्ता चतुर्विंशतिस्तवेन दर्शनाचारशुद्धिरिदानी ज्ञानाचारशुद्धिमाह - नाणाईया उ गुणा, तस्संपत्रपडिवत्तिकरणाओ / वंदणएणं विहिणा, कीरइ सोही उ तेसिं तु / / 4 / / ज्ञानादिकास्तु गुणास्तत्सम्पन्नप्रतिपत्तिकरणात् / वन्दनकेन विधिना क्रियते शोधिस्तु तेषां तु / / 4 / / नाण त्ति सूचनात् “काले विणए" इत्यादिकोऽष्टविधो ज्ञानाचारों गृहीतः। आइ त्ति आदिग्रहणात् दर्शनाचारचारित्राचारग्रहो यतो ज्ञानवानपि दर्शनचारित्रगुणयुक्त एव वन्दनकप्रतिपत्तियोग्यः येन ज्ञानवन्तोऽपि पार्श्वस्थादयोऽवन्द्याश्चारित्ररहितत्वात्, तथा व्यवहारात् चारित्रिणोऽपि निह्नवा वन्दनकाऽयोग्या जिनवचनाऽश्रद्धानेन दर्शनाऽभावादित्यर्थः / ज्ञानमादौ येषां ते ज्ञानादिकाः, तुरवधारणार्थः, एते एव गुणा इत्यर्थः, तत्सम्पन्न त्ति तैर्ज्ञानादिगुणैः सम्पन्ना युक्तास्तत्सम्पन्नास्तेषां प्रतिपत्तिर्भक्तिस्तस्याः करणम्, तस्मात् तत्सम्पन्नप्रतिपत्तिकरणाद् विनयकरणादित्यर्थः / केन ? वन्दनकेन, कथम् ? विधिना विधिवत्, द्वात्रिंशद्दोषरहिततया पञ्चविंशत्यावश्यकपरिशुद्धतया च क्रियते, शोधिरिति तेसिं तु त्ति तेषां ज्ञानाचारादीनां तुः पुनरर्थे, चारित्राचारदर्शनाचारयोः शोधितयोरपि विशेषेण शोधनार्थः / यतो वन्दनकप्रदानादेवं गुणाऽवाप्तिर्भवति / 1. यथावस्थिततत्त्वरूपेण-ल, 2. तस्संपुन-ड, डर, 3. वन्दनप्रदाना-ल, D परि-२ /