________________ खण्ड-१ : श्लोक-२, 3 स्वरूपभणनार्थं च गाथाषट्कमाह - चारित्तस्स विसोही, कीरइ सामाइएण किल ईहयं / सावज्जेयरजोगाण, वजणाऽऽसेवणत्तणओ / / 2 / / चारित्रस्य विशोधिः क्रियते सामायिकेन किल इहैव / सावद्येतरयोगानां वर्जनाऽऽसेवनातः / / 2 / / चयस्य रिक्तीकरणाच्चारित्रम्, सूत्रस्य सूचकत्वात् चारित्रस्य चारित्राऽऽचारस्य / पणिहाण इत्यादि अष्टविधस्य शोधनं विशोधिः, चारित्रस्य विशोधिश्चारित्रविशोधिः क्रियते / केन ? सामाइएणं ति सामायिकेन समो रागद्वेषवियुक्तो यः सर्वभूतान्यात्मवत् पश्यति तस्याऽऽयः प्रतिक्षणमपूर्वापूर्वज्ञानदर्शनचारित्रपर्यायाणां निरूपमसुखहेतुभूतानामधःकृतचिन्तामणिकल्पद्रुमोपमानां लाभः समायः स प्रयोजनं यस्य क्रियाकलापस्येति सामायिकं तेन सामायिकेन समभावलक्षणेन, .. ___“जो समो सव्वभूएसु, तसेसु थावरेसु य / .. तस्स सामाइयं होइ, ईई केवलिभासियं" / / [आव. नि. 798] इति वचनात् / . किलेति सम्भावनायाम्, किं सम्भावयति ? इहयं ति इहैव जिनशासने, न शाक्यादिदर्शने, तद्दर्शनेषु 'सामायिक' इति भाषाया अप्यभावात् / कथं च सामायिकेन विशोधिः क्रियते ? इत्याह सावजेयर त्ति सावद्याः सपापा इतरे च निरवद्याः, सावद्याश्च इतरे च सावद्येतराः ते च ते योगाश्च सावद्येतरयोगास्तेषां वर्जना च आसेवना च वर्जनाऽऽसेवने, ताभ्यां वर्जनाऽऽसेवनातः, यथासङ्ख्येन सावधानां वर्जनत इतराणां [इतरेषां] त्वासेवनतो विशोधिस्तेन च क्रियत इति तात्पर्यार्थः / / 2 / / उक्ता सामायिकेन चारित्राचारशुद्धिः, अथ दर्शनाऽऽचारशुद्धिमाह - दंसणायारविसोही, चउवीसायत्थएण कजई य / अञ्चन्मयगुणकित्तणरूवेणं जिणवरिंदाणं / / 3 / / दर्शनाचारविशोधिश्चतुर्विशत्यात्मस्तवेन क्रियते च / अत्यद्भुतगुणकीर्तनरूपेण जिनवरेन्द्राणाम् / / 3 / / 1. इहई-पु०, इहय-ड, ड२, 2. मपूर्वज्ञान-ड२, 3. समयोःड, डर, ड, 4. इयं-ल, 5. दंसणयार-ड, 6. चउवीसाइत्थएण-ड,ड२,C / परि-२।