SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ चतुःशरणप्रकीर्णकम् : श्लोक-१ परम्परं मुक्तिपदप्राप्तिः / अभिधेयं चतुःशरणादिः, तस्यैव भणिष्यमाणत्वात् / सम्बन्धश्च उपायोपेयभावलक्षणः, तत्र प्रवचनरूपापन्नमिदमेवाऽध्ययनमुपायः, उपेयं तु तदर्थपरिज्ञानम् / इदं चाऽध्ययनं परमपदप्राप्तिबीजभूतत्वात् श्रेयोभूतम्, तदारम्भे च मङ्गलमभिधातव्यम् / तच्चानेकधा भवतीत्यतः प्रथमं सक्षेपतः सामायिकाद्यर्थनिर्णयद्वारेण तदाह, सामायिकादीनामपि मङ्गलरूपत्वात् / तदनु च द्रव्यमङ्गलभूतत्वात्, भावमङ्गलकारणत्वाद् वा, गजादिस्वप्नसन्दर्शन-तव्यावर्णनव्याजेन 'सर्वतीर्थकृत एतत्स्वप्नसंसूचिता' इति वाक्यगर्भं द्वितीयं मङ्गलमाह / ततोऽपि च शास्त्रकर्तुरनन्तरोपकारित्वादभीष्टदैवतस्य वर्धमानस्वामिनो नमस्करणद्वारेण तृतीयं मङ्गलमाह / अथवा चतुःशरणाध्ययनेन उत्तमार्थाराधना भवति, षडावश्यकस्याऽप्याराधनापर्यायत्वात् / यदाह - . * “आवस्सयं अवस्सकरणिज्जें, धुव निग्गहो विसोही य / अज्झयणछक्कवग्गो, नाओ आराहणा य मग्गो" / / [अनु.द्वा. सू. 29] अतः षडावश्यकमप्याराधनारूपं विवरीतुकामस्तदादौ ‘सावज्जजोग' इत्याद्याऽऽह, यदि वा सामायिकार्थवेदिन एव सम्यक् चतुःशरणादिप्रतिपत्तिर्भवतीत्यादौ तदर्थनिर्णयायाऽऽह - "सावजजोगविरई, उक्तित्तण गुणवओ य पडिवत्ती / खलियस्स निंदणा, वणतिगिच्छ गुणधारणा चेव / / 1 / / [अनु.द्वा. सू. 73] सावद्ययोगविरतिरूत्कीर्तनं गुणवतश्च प्रतिपत्तिः / स्खलितस्य निन्दना व्रणचिकित्सा गुणधारणा चैव / / 1 / / . सहावयेन पापेन वर्तन्ते इति सावद्याः, युज्यन्त इति योगाः मनो-वाक्-कायव्यापाराः, सावद्याश्च ते योगाश्च सावधयोगाः / विरमणं 'विरतिस्तेषां विरतिस्तद्विरतिः, 'सा सामायिकेन क्रियते इत्यध्याहार्यम् / उत्कीर्तनम् उत्कीर्तना सा चतुर्विंशतिस्तवेन क्रियते / गुणा ज्ञान-दर्शन-चारित्राद्यास्ते विद्यन्ते येषां ते गुणवन्तस्तेषां प्रतिपत्तिर्भक्तिः गुणवत्प्रतिपत्तिः सा वन्दनकेन क्रियते / तथा स्खलनं स्खलितमात्मनः, साऽतिचारकरणम्, तस्य निन्दनं निन्दना 'न पुनः करिष्यामि' इत्यभ्युपगमनम्, सा प्रतिक्रमणेन क्रियते / चिकित्सनं चिकित्सा, व्रणस्याऽतिचाररूपभावव्रणस्य चिकित्सा व्रणचिकित्सा, सा कायोत्सर्गेण क्रियते / तथा गुणा विरत्यादयः, धरणं धारणा, तेषां धारणा गुणधारणा, सा प्रत्याख्यानेन क्रियते / चेवे ति समुच्चये / उक्तः सङ्खपतः सामायिकाद्यर्थः / / 1 / / अथ तेषां षण्णामपि सामायिकादीनामाचारपञ्चकविशुद्धिलक्षणफलप्रदर्शनार्थं किञ्चिद्विशेष 1. वितरीतुकाम० ल, 2. सामायिकाद्यर्थःडर, 3. 'सा' इति ड१, डर, प्रत्यो नास्ति, A-B परि०२ /
SR No.004445
Book TitleAgam Chatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2008
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy