________________ / / सर्ववाञ्छित-मोक्षफलप्रदायक-श्रीशलेश्वर-चिन्तामणिपार्श्वनाथाय नमो नमः / / / / नमोऽत्थु णं समणस्स भगवओ महावीरस्स / / त्रैलोक्यबीजं परमेष्ठिबीजं, सज्ज्ञानबीजं जिनराजबीजम् / यत्राम चोक्तं विदधाति सिद्धिं स गौतमो यच्छतु वाञ्छितं मे / / / / श्रीवीरविभुहस्तदीक्षितवीरभद्रगणिने नमः / / / नमामि नित्यं गुरुरामचन्द्रम् / / / / ऐं नमः।। श्रीचिरन्तनाचार्यविरचितबृहद्विवरणसमेतं श्रीवीरभद्रगणिप्रणीतं . चतुःशरणप्रकीर्णकसूत्रम् [ शार्दूलविक्रीडितवृत्तम् ] त्रैलोक्यप्रकटप्रभावशुभगं भूष्णुप्रभं शोभते, ज्योतिर्यस्य स विश्वशस्यमहिमा श्रीवर्धमानः प्रभुः / सिद्धार्थान्वयवार्धिवर्धनविधुर्बन्धूकबन्धूलसत्ः पादाम्भोजनखद्युतिर्वितरतु श्रेयः सतां वत्सलः / / 1 / / . [अनुष्टुब्वृत्तम् ] निस्तन्द्रमुनिचन्द्राय, समुद्राय श्रुताम्भसाम् / नमः श्रीवीरभद्राय, भद्राऽऽध्यासितबुद्धये / / 2 / / . इह हि अपारसंसारपारावारोत्तरणाय सततमपि विशेषत उत्तमार्थं प्रतिपत्तुकामैव्यैः प्रवणप्रवहणकल्पचतुःशरणाद्यनुस्मरणं विधेयम् / तच्च याथातथ्येन चतुःशरणाध्ययनपवित्रसूत्रं विना न भवति इति / अतः परित्यक्तदोषविग्रहः सर्वसत्त्वोपरिकृताऽनुग्रहः श्रीवीरभद्रो मुनीन्द्रः प्रभूताऽर्थसार्थमहार्थं चतुःशरणाध्ययनं जग्रन्थ / - तदादौ प्रयोजना-ऽभिधेय-सम्बन्ध-मङ्गलाद्यभिधातव्यानि, यतोऽविदितार्थस्वरूपाः शिष्यास्तदध्येतुं नोत्सहन्ते निष्प्रयोजनत्वात् कण्टकशाखामर्दनवत्, निरभिधेयत्वात् काकदन्तपरीक्षावत्, असम्बद्धत्वाद् दशविधत्वाद् दाडिमानीत्यादिवत्, मङ्गलरहितत्वेन सविघ्नत्वात् / तत्र प्रयोजनमनन्तरपरम्परभेदाद् द्विधा, पुनरेकैकं कर्तृश्रोतृभेदाद् द्विधैव, तत्र चतुःशरणाध्ययनकर्तुरनन्तरं प्रयोजनं शिष्यावबोधः, परम्परं त्वर्थमपवर्गप्राप्तिः। श्रोतुरप्यनन्तरं तदर्थावगमः है रोत्तारणाय-ल, 2. विशेषेण तत-ल, 3. तमध्येतुं-ल, 4. द्विविधैव-ल, 5. अनन्तरप्रयोजनं- डर, 6. त्वपवर्गप्राप्तिः-ल, त्वर्थपवर्गप्राप्तिःङ-३