________________ खण्ड-३/परिशिष्ट-११ 273 निजनिजक्रियासु सापेक्षा इत्यक्षरार्थः, भावार्थस्त्वयं-नामस्थापनाद्रव्यभावैश्चतुभिरपि निक्षेपैः सामान्यत एक-एवार्हन् कल्प्यते, तत्र भावार्हन् उत्तमाङ्गकल्पः, शेषास्त्रयोऽपि तदवयवकल्पाः , परस्परमनुगताः स्वस्वकार्येषु सापेक्षाः, अपेक्षा चैवं-सामान्यतोऽर्हन् विशेषत ऋषभोऽजित इत्यादिनामभिर्विना भावार्हतोऽपि सम्यग्ज्ञानध्यानादेरसंभवः, स्थापनां विना च भावार्हतोऽप्याकृत्यादिदर्शनासंभवः, आकृत्यादिदर्शनाभावे च ध्यानावलम्बनाभावः सर्वकालमर्हद्विषयकपूजादिविधेरसंभवश्च स्यात्, द्रव्यमन्तरेण भावार्हतोऽप्यसंभवः, 'द्रव्यं हि भावकारण' मितिवचनाद्, एवं नामस्थापने अपि भावार्हन्तं विना कस्य क्रियेते ?, स्थापनायामप्यभिधानं भावार्हत्संबंन्ध्येवेति नामस्थापनयोरपि भावार्हतोऽपेक्षा, द्रव्याहत्त्वमपि भावार्हदपेक्षयैव वक्तुं शक्यते, यदि मरीचिजीवोऽपि भावी भावार्हनाभविष्यत्तर्हि द्रव्याहद्वद्ध्या भरतचक्रवर्ती 'जं होहिसि तित्थयरो अपच्छिमो तेण वंदामी'त्यादि (आव० 428) वचोभिः-स्वाभिप्रेतं भक्तिवन्दनं कथं प्राकटिष्यत् ?, कथं वाऽष्टापदे तत्प्रतिमामप्यकारयिष्यत्, कारितवांश्च तत्प्रतिमां, यदागमः "थूभसय भाउआणं चउवीसं चेव जिणहरे कासी / सव्वजिणाणं पडिमा वण्णपमाणेहि निअएहिं / / 1 / / " - श्रीआव० नि० भाष्ये (45) किंच-आस्तामन्यत्र, भावार्हन्नपि समवसरणे चतूरूपः सन् धर्मदेशनां कुर्वाणो निजप्रतिरूपकसापेक्ष एव, तत्र त्रीणि प्रतिरूपकाणि, तानि तु देवकृतान्येव, यदागमः" "जे ते देवेहिं कया तिदिसिं पडिरूवगा जिणवरस्स / .. तेसिपि तप्पभावा तयाणुरूवं हवइ रूवं / / 1 / / " इति श्रीआ० नि० (557) * तानि च प्रतिरूपकाणि तथा वस्तुस्वाभाव्यात् स्वल्पकालस्थितिकान्यपि जिनबिम्बान्येव, तदभावे च समवसरणरचनाया एवासंभावत्, तथात्वे च तीर्थकृन्नाथकर्मजन्यपूजास्वादासंभवात्, तदभावे च तीर्थकृत्कर्मणो भोगाभावेन मुक्तयनवाप्तेः, किंच-प्राचीनदिग्व्यतिरिक्तासु तिसृषु दिक्षु स्थितानां देवादीनां तीर्थकराभिमुखत्वाभावेन धर्मश्रवणस्याप्यनुचितत्वाद्, यदागमः.. "न पक्खओ न पुरओ, नेव किञ्चाण पिठ्ठओ / न जुंजे ऊरुणा ऊरु, सयणे नो पडिस्सुणे / / 1 / / " इति श्रीउत्त० (18-5-380-) इयं च युक्तिस्तीर्थव्यवस्थानाविश्रामे लुम्पकविशेषस्याञ्चनसाध्यचक्षुरोगस्याञ्जनतयोक्तेत्याद्यनेकप्रकारेणं परस्परसापेक्षता योज्येतिगाथार्थः / / 14 / / .