________________ 250 श्रीचतुःशरणप्रकीर्णकम् सुकृतानुमोदना - शोभनं कृतं सुकृतं तस्याऽनुमोदना भव्यं मयैतत् कृतमिति / / 10 / / स्खलन - स्खलितमात्मानः, साऽतिचारकरणम् / / 1 / / स्खलित - व्रतविषयेऽतिक्रमादिना सञ्जातमपराधम् / / 5 / . स्खलितनिन्दना - व्रतविषयेऽतिक्रमादिना सञ्जातस्यापराधस्य निन्दनं दुष्टं मयैतत्कृतमिति परसाक्षिकमात्मदोषाविष्करणम् / / 5 / / स्थविरा - प्रवर्तकव्यापारितार्थेषु सीदमानान् साधून स्थिरीकुर्वन्तः / / 32 / / हर्ष - वदनविकारादिचिन्हगम्यमानसः प्रीतिविशेषः / / 41 / /