________________ खण्ड-३/परिशिष्टः-८ 249 सम्भिन्नश्रोतः - ये सर्वैः शरीरावयवैः श्रृण्वन्ति, जानन्ति च, भिन्नान् वा चक्रवर्तिस्कन्धावार बहलकोलाहलजशब्दसन्दोहान् अयमेतस्याऽयमेतस्येत्यादिव्यक्त्या पृथक पृथक् व्यवस्थापयन्तीति / / 34 / / साधु - निर्वाणसाधकान् योगान् साध्नुवन्ति कुर्वन्तीति / निव्वाणसाहए जोगे, जम्हा साहति साहुणो / समा य सव्वभूएसु, तम्हा ते भावसाहुणो / / 11 / / साधुचरित - चरण-करणादिक्रियाकलापं, ज्ञान-दर्शन-चारित्रधारित्वं, समभावित्वं, असहायसहायत्वमित्यादि / / 57 / / सामायिक - समो रागद्वेषवियुक्तो यः सर्वभूतान्यात्मवत् पश्यति तस्याऽऽयः प्रतिक्षण मपूर्वापूर्वज्ञान-दर्शन-चारित्रपर्यायाणां निरूपमसुखहेतुभूता नामधःकृतचिन्तामणिकल्पद्रुमोषमानां लाभः समायः / स प्रयोजनं यस्य क्रियाकलापस्येति सामायिकम् / / 2 / / जो समो सव्वभूएसु तसेसु थावरेसु य / / तस्स सामाइयं होइ ईई केवलिभासियं / / 2 / / सावध . - सहावद्येन पापेन वर्तन्त इति / / 1 / / - केवलज्ञानोपयुक्तत्वम्, सर्वकर्मविमुक्तत्वम्, निरुपमसुखभोक्तृत्वमित्यादि / / 57 / / सिद्ध - सिद्ध्यन्ति निष्ठितार्था भवन्तीति सिद्धाः, सितं मातं वाष्टप्रकारं कर्म यैस्ते सिद्धाः / तथा च दीहकालरयं जं तु कम्मं से सियमट्ठहा / .. सियं धंतं ति सिद्धस्स सिद्धत्तमुवजायई / / 11 / / सिद्धिक्षेत्र - अधस्तिर्यगूर्वलोकलक्षणस्य चतुर्दशरज्जवात्मकलोकस्य सर्वोपरिवर्त्ति स्थानं पञ्चचत्वारिंशल्लक्षविस्तीर्णमीषत्प्राग्भाराख्यं सिद्धिक्षेत्रम् / / 25 / / सिद्धत्व