________________ 246 श्रीचतुःशरणप्रकीर्णकम् कायोत्सर्ग - उत्सर्जनं त्यजनमुत्सर्गः / कायस्य उत्सर्गः कायोत्सर्गः / / 6 / / कारुण्य - दुःखप्रहाणेच्छादिरूप आर्द्रभावः / / 38 / / केवलिन् - केवलमसहायं मत्यादिज्ञानाऽनपेक्षं सर्वद्रव्यसर्वपर्यायादिविषयं ज्ञानं विद्यते येषां ते / / 32 / / कोष्टकबुद्धि - नीरन्ध्रधान्यकोष्ठकक्षिप्तधान्यवद् ये सुनिष्टिातस्थिरसंस्कारसूत्रार्थास्ते / / 34 / / . क्षीराश्रव - चीर्णग्रन्थिपर्णकादिवनस्पतिविशेषस्य चक्रवर्तिसम्बन्धिनो गोलक्षस्यार्धार्ध क्रमेण पीतगोक्षीरस्य पर्यन्ते, यावदेकस्याः गोः सम्बन्धि यत् क्षीरं तदिह गृह्यते, तदिव यस्य वचनं नवरसमाधुर्यमाश्रवति मुञ्चतीति स क्षीराश्रवः / / 34 / / गणावच्छेदिन् - आचार्योपदिष्टशिष्यादिप्रयोजनोद्भावेन क्षेत्रोपधिसम्पादनेन गणमोदी सूत्रार्थवेदी / / 32 / / गुणवत् - गुणा ज्ञान-दर्शन-चारित्राद्यास्ते विद्यन्ते येषां ते / / 1 / / गुणधारणा - गुणा विरत्यादयः, धरणं धारणा, तेषां धारणा / / 1 / / चतुर्दशपूर्विन् - चतुर्दशसङ्ख्यानि पूर्वाणि - उत्पादपूर्वाग्रायणीयवीर्यप्रवादाऽस्तिप्रवादज्ञान प्रवादाऽऽत्मप्रवाद-कर्मप्रवाद-प्रत्याख्याननामधेयविद्यानुप्रवादाद्यवन्ध्य - प्राणावाय-क्रियाविशाल-लोकबिन्दुसाराभिधेयानि विद्यन्ते येषां ते / / 33 / / चतुःशरणगमन - चतुर्णामर्हत्-सिद्ध-साधु-धर्माणां शरणं गमनम् / / 10 / / चारित्र - चयस्य रिक्तीकरणाच्चारित्रम् / / 2 / / जिनकल्पिक - एकाकित्वनिष्प्रतिकर्मशरीरतया जिनस्येव कल्पो येषां ते / / 33 / / जीव - जीवन्ति दशविधप्राणधारणेन तिष्ठन्तीति जीवाः सूक्ष्म-बादर-त्रस-स्थावराः / / 17 / / तपस् - तप्यते कर्ममलाऽपनयनेनाऽऽत्मा सुवर्णमिवाऽग्निनाऽनेनेति / / 14 / / दर्शनाचार - दृश्यन्तेऽवबुध्यन्ते यथावस्थितस्वरूपेण पदार्था अनेनेति दर्शनं सम्यक्त्वम् तस्याचारो दर्शनाचारः / / 3 / /