________________ . 27 पञ्चाशक० 16-42 (चतु. गा० 59 व.] ते पुण दुसमयट्ठितियस्स बंधगा ण पुण संपरायस्स / सेलेसीपडिवण्णा अबंधया होंति विण्णेया।।४२।। व्याख्या-ते. पुनस्रयोऽपि द्वौ समयौ बन्धोदयविशिष्टौ स्थितिरवस्थानं यस्य तंद्विसमयस्थितिकं योगप्रत्ययं सातवेदनीयमित्यर्थः, तस्य / बुन्धका अर्जकाः / न तु न पुनः / संपरायस्य कषायप्रत्ययस्य, उपशान्तक्षीणकषायत्वात्तेषाम् / तथा शैलेश्ययोग्यवस्थासम्भवः करणविशेषस्तां प्रतिपन्ना आश्रिता येते तथा ते / अबन्धकाः कर्मबन्धरहिताः / भवन्ति स्युः / विज्ञेया ज्ञातव्या इति।।४२।। 28 वि०आ०भा०२०४६ [चतु. गा० 60 वृ०] नन्वेवमुपक्रमः किमायुष एव भवति, आहोस्विदन्यासामपि ज्ञानावरणादिप्रकृतीनाम् ? इति विनेयप्रश्नमाशङ्कयाहसव्वपगईणमेवं परिणामवसादुवक्कमो होज्जा / पायमनिकाइयाणं तवसा उ निकाइयाणं पि।।२०४६।। न केवलमायुषः, किन्तु सर्वासामपि ज्ञानावरणादिप्रकृतीनां शुभाशुभपरिणामवशादपवर्तनाकरणेन यथायोगं स्थित्यादिखण्डनद्वारेणापवर्त्यमानानामुपक्रमो भवति / स च प्रायो निकाचनाकरणेनानिकाचितानां स्पृष्ट-बद्ध-निधत्तावस्थानामेव भवति / प्रायो ग्रहणस्य फलमाह-तीव्रण तपसा पुनर्निकाचितान्यपि कर्माण्युपक्रम्यन्त एव / यदि पुनर्यथा बद्धं तथैवानुपक्रान्तं सर्वमपि कर्म वेद्यते, तदा मुक्तिगमनं कस्यापि न स्यात्, तद्भव-सिद्धिकानामपि नियमेन सत्तायामन्तः सागरोपमकोटीकोटीस्थितिकस्य कर्मणः सद्भावात् / एतच्च स्वत एव वक्ष्यति / तायुष एव किमित्यत्रोपक्रमकाल उक्तो न शेषकर्मणाम् ? इति चेत् / उच्यते-लोक आयुष्कोपक्रमस्यैव प्रसिद्धत्वात् तदुपक्रमकाल एवेह प्रोक्तः, उपलक्षणव्याख्यानाच्छेषकर्मोपक्रमकालोऽपि द्रष्टव्य इति / / 2046 / /