________________ खण्ड-३ 171 तथा जीवेषुपृथिव्यादिष्वजीवसंज्ञा यथा न भवन्ति पृथिव्यादयो जीवाः उच्छ्वासादीनां प्राणिधर्माणामनुपलम्भाद् घटवदिति 6 तथाऽसाधुषु षड्जीवनिकायवधानिवृत्तेष्वौद्देशिकादिभोजिष्वब्रह्मचारिषु साधुसंज्ञा, यथा साघव एते सर्वपापप्रवृत्ता अपि ब्रह्ममुद्राधारित्वादित्यादि विकल्परूपेति 7 तथा साधुषु-ब्रह्मचर्यादिगुणान्वितेषु असाधुसंज्ञा, एते हि कुमारप्रव्रजिता नास्त्येषां गतिरपुत्रत्वात् स्नानादिविरहितत्वाद्वेत्यादिविकल्पात्मिकेति 8 तथाऽमुक्तेषु-सकर्मसु लोकव्यापारप्रवृत्तेषु मुक्तसंज्ञा, यथा. 'अणिमाद्यष्टविधं प्राप्यश्वयं कृतिनः सदा / मोदन्ते निर्वृतात्मानस्तीर्णाः परमदुस्तरम् / / 1 / / " इत्यादि विकल्पात्मिकेति 9 तथा मुक्तेष-सकलकर्मकृतविकारविरहितेष्वनन्तज्ञानदर्शनसुखवीर्ययुक्तेषु अमुक्तसंज्ञा, न सन्त्येवेदृशा मुक्ताः, अनादिकर्मयोगस्य निवर्त्तयितुमशक्यत्वादनादित्वादेव आकाशात्मयोगस्येवेति, न सन्ति वा मुक्ताः मुक्तस्य विध्यातदीपकल्पत्वादात्मन एव वा नास्तित्वादित्यादि विकल्परूपेति 10 / 23 वि०आ०मा० 1047 [चतु. मा० 57 व.] तदेवं तीर्थं प्रतिपाद्य तीर्थकरसिद्धिमाहअणुलोम-हे उ-तस्सीलया य जे भावतित्थमेयं तु / कुवंति पगासंति य ते तित्थयरा हियत्थकरा / / 1047 / / __हेतु ताच्छील्या-ऽऽनुलोम्यतो ये भावतीर्थमेतत् कुर्वन्ति, गुणतः प्रकाशयन्ति च, ते तीर्थकराः / तत्र हेतो सद्धर्मतीर्थकरणहेतवः “कुञो हेतु-ताच्छील्या-ऽऽनुलोम्येषु" इत्यादिना टप्रत्ययविधानात् सीर्थकराः, यथा यशस्करी विद्येत्यादि / ताच्छील्ये-कृतार्था अपि तीर्थकरनामकर्मोदयतः समग्रप्राणिगणानुकम्पापरतया च सद्धर्मतीर्थदेशकत्वात् तीर्थकराः, भरतादिक्षेत्रे प्रथमनरनाथकुलकरादिवदिति / आनुलोम्ये-स्त्री-पुरुष-बालवृद्ध-स्थविर-कल्पिक-जिनकल्पिकादीनामनुरूपोत्सर्गा-ऽपवाददेशनयाऽनुलोमसद्धर्मतीर्थकरणात् तीर्थकराः, यथा वचनकर इत्यादि / एवंभूतास्तीर्थकराः, अत एव सर्वासुमतां हितस्य मोक्षार्थस्य करणात् हितार्थकराः / तान्, 'वन्दे' इति क्रियासम्बन्धात् सर्वत्र कर्मप्राप्तिः / द्वितीयाबहुवचने च प्राकृतत्वादेकारान्तत्वमिति।।१०४७।। .