________________ 170 परिशिष्टम् 2-22 "जन्मान्तरफलं पुण्यं, तपोदानसमुद्भवम् / सन्ततिः शुद्धवंश्या हि, परोह च शर्मणे" / / 1 / / . इति, तथा मित्रं-सुहत्तञ्च तन्निधिश्चेति मित्रनिधि-रर्थकामसाधकत्वेनानन्दहेतुत्वात्, तदुक्तम् ___ "कुतस्तस्यास्तु राज्यश्रीः, कुतस्तस्य मृगेक्षणाः / यस्य शूरं विनीतं च, नास्ति मित्रं विचक्षणम् ?" / / 1 / / शिल्पं-चित्रादिविज्ञानं तदेव निधिः शिल्पनिधिः, एतच्च विद्योपलक्षणम्, तेन विद्या निधिरिव पुरुषार्थसाधनत्वाद, अत्रोक्तम् "विद्यया राजपूज्यः स्याद्विद्यया कामिनीप्रियः / / विद्या हि सर्वलोकस्य, वशीकरण-कार्मणम्" / / 1 / / . इति, तथा धननिधिः-कोशो धान्यनिधिः-कोष्ठागारमिति / अनन्तरं निधिरुक्तः, स च द्रव्यतः पुत्रादिर्भावतस्तु कुशलानुष्ठानरूपं ब्रह्म / 22 स्था०सू० 734 [चतु. गा० 51 वृ०] पाराञ्चिको मिथ्यात्वमप्यनुभवेदतो मिथ्यात्वनिरूपणाय सूत्रम्- . दसविधे मिच्छत्ते पं० तं०-अधम्मे धम्मसण्णा धम्मे अधम्मसण्णा अमग्गे मग्गसण्णा मग्गे उम्मग्गसन्ना अजीवेसु जीवसन्ना जीवेसु अजीवसन्ना असाहुसु साहुसन्ना साहुसु असाहुसण्णा अमुत्तेसु मुत्तसन्ना मुत्तेसु अमुत्तसण्णा (सू० 734) तत्र अधर्मे-श्रुतलक्षणविहीनत्वादनागमे अपौरुषेयादौ धर्मसंज्ञा-आगमबुद्धिर्मिथ्यात्वम्, विपर्यस्तत्वादिति 1 धर्मे-कषच्छेदादिशुद्धे सम्यक् श्रुते आप्तवचनलक्षणेऽधर्मसंज्ञा सर्व एव पुरुषा रागादिमन्तोऽसर्वज्ञाश्च पुरुषत्वादहमिवेत्यादिप्रमाणतोऽनाप्तास्तदभावात्तत्तदुपदिष्टं शास्त्रं धर्म इत्यादिकुविकल्पवशादनागमबुद्धिरिति 2 तथा उन्मार्गो निर्वृतिपुरी प्रति अपन्थाः वस्तुतत्त्वापेक्षया विपरीतश्रद्धानज्ञानानुष्ठानरूपस्तत्र मार्गसंज्ञा-कुवासनातो मार्गबुद्धिः 3 तथा मार्गेऽमार्गसंज्ञेति प्रतीतं 4 तथा अजीवेषु-आकाशपरमाण्वादिषु जीवसंज्ञा 'पुरुष एवेद'मित्याद्यभ्युपगमादिति तथा 'क्षितिजलपवनहुताशनयजमानाकाशचन्द्र-सूर्याख्याः / इति मूर्तयो महेश्वरसम्बन्धिन्यो भवन्त्यष्टो / / 1 / / " इति 5,