________________ 168 परिशिष्टम् 2 सम्बन्धः स च दर्शयिष्यते, तथा बीजानां-तन्निबन्धनभूतानां तथा मानं सेतिकादितद्विषयं यत्तदपि मानमेव धान्यादि मेयमिति भावः, तथोन्मानं-तुलाकर्षादि तद्विषयं यत्तदप्युन्मानं खण्डगुडादि धरिममित्यर्थः, ततो द्वन्द्वसमाहारः कार्यस्ततस्तस्य च, किमित्याह-यत्प्रमाणम्, चकारो व्यवहितसम्बन्ध एव, तथैव दर्शयिष्यते, तत्पाण्डुके भणितमिति लिङ्गपरिणामेन सम्बन्धः, तथा धान्यस्य-व्रीह्यादेबीजानां च-तद्विशेषाणामुत्पत्तिश्च या सा पाण्डुके-पाण्डुकनिधिविषया, तद्व्यापारोऽयमिति भावो, मणिता-उक्ता जिनादिभिरिति 2 / 'सव्वा' गाहा कण्ठ्या 3 / 'रयण'गाहा, अक्षरघटनैवं-रत्नान्येकेन्द्रियाणि चक्रादीनि सप्त पञ्चेन्द्रियाणि. सेनापत्यादीनि सप्त उत्पद्यन्ते-भवन्ति यानि चक्रवर्तिनस्तानि सर्वाणि 'सर्वरत्ने' सर्व्वरत्ननामनि निधौ द्रष्टव्यानीति 4 / 'वत्थाणं'गाहा, वस्त्राणां वाससां योत्पत्तिः सामान्यतो या च विशेषतो निष्पत्तिः सिद्धिः सर्वभक्तीना-सर्ववस्त्रप्रकाराणां सर्वा वा भक्तयः- प्रकारा येषां तानि तथा तेषाम्, किंभूतानां वस्त्राणामित्याह-रगाणांरङ्गवतां रक्तानामित्यर्थः, धौतानां-शुद्धस्वरूपाणां, सर्ववैषा महापद्ममहापद्मनिधिविषया 5 / कालेगाहा, काले कालनामनि निधौ कालज्ञानं कालस्य शुभाशुभरूपस्य ज्ञानं वर्त्तते, ततो ज्ञायत इत्यर्थः, किम्भूतमित्याह-भाविवस्तुविषयं भव्यं पुरातनवस्तुविषयं पुराणं, चशब्दाद् वर्तमान-वस्तुविषयं वर्त्तमानं, 'तीसु वासेस'त्ति अनागतवर्षत्रयविषयमतीतवर्षत्रयविषयं चेति, तथा शिल्पशतं कालनिधौ वर्त्तते, शिल्पशतं च घट 1 लोह. 2 चित्र 3 वस्त्रं 4 नापित 5 शिल्पानां प्रत्येकं विंशतिभेदत्वादिति, तथा कर्माणि च कृषिवाणिज्यादीनि कालनिधाविति प्रक्रमः, एतानि च त्रीणि कालज्ञानशिल्पकर्माणि प्रजायाः-लोकस्य हितकराणि निर्वाहाभ्युदयहेतुत्वेनेति 6 / 'लोहगाहा, लोहस्य चोत्पत्तिर्महाकाले निधौ भवति-वर्त्तते, तथा आकराणां च लोहादिसत्कानामुत्पत्तिराकरीकरणलक्षणा, एवं रूप्यादीना-मुत्पत्तिः सम्बन्धनीया केवलं मणयः-चन्द्रकान्तादयः मुक्तामुक्ताफलानि शिलाः-स्फटिकादिकाः प्रवालानि-विद्रुमाणीति 7 / 'जो गाहा योधानां-शूरपुरुषाणां योत्पत्तिरावरणानां-सन्नाहानां प्रहरणानां-खड्गादीनां सा युद्धनीतिश्च-व्यूहरचनादिलक्षणा माणवके निधौ निधिनायके वा भवति, ततः प्रवर्त्तत इति भावः, दण्डेनोपलक्षिता नीतिर्दण्डनीतिश्च-सामादिश्चतुर्विधा, अत एवोक्तमावश्यके-'सेसा उ दंडनीई माणवगनिहीउ होइ भरहस्स'त्ति 8 / 'नट्ट'