________________ खण्ड-३ तदनेन न केवलं शल्यादिवदनुभूयमाना एवामी दोषकारिणः, किन्तु प्रार्थ्यमाना अपीत्युक्तं भवति / तथा च-'यः सद्विवेको नासौ प्राप्तमप्राप्तकाङ्क्षया' इत्यादौ सद्विवेकत्वमनैकान्तिको हेतुः, न ह्ययमेकान्तः यथा प्राप्तमप्राप्तार्थे न परिहियते, प्राप्तस्याप्यपायहेतोः तदुच्छेदकाप्राप्यर्थं विवेकिभिः परिह्रियमाणत्वाद्, अनभ्युपगतो-पालम्भश्चायम्, मुमुक्षूणां क्वचिदाकाङ्क्षाया एवासम्भवात्, उक्तं हि- 'मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः' इति सूत्रार्थः / / 101 / / 19 दशव०सू० 1 [चतु. गा० 48 वृ०] धम्मो मंगलमुक्किट्ठ, अहिंसा संजमो तवो / देवावि तं नमसंति, जस्स धम्मे सया मणो / / 1 / / तत्रास्खलितपदोञ्चारणं संहिता, सा पाठसिद्धैव / अधुना पदानि-धर्मः मङ्गलम् उत्कृष्टम् अहिंसा संयमः तपः देवाः अपि तं नमस्यन्ति यस्य धर्म सदा मनः / तत्र “धृञ् धारणे" इत्यस्य धातोर्मप्रत्ययान्तस्येदं रूपं धर्म इति / मङ्गलरूपं पूर्ववत् / तथा “कृष् विलेखने" इत्यस्य धातोरुत्पूर्वस्य निष्ठान्तस्येदं रूपमुत्कृष्टमिति / तथा "तृहि हिसि हिंसायाम्" इत्यस्य “इदितो नुम् धातो." (पा० 7-1-58) इति नुमि कृते स्रयधिकारे टाबन्तस्य नपूर्वस्येदं रूपं यदुताहिंसेति / तथा “यमु उपरमे" इत्यस्य धातोः संपूर्वस्याप्प्रत्ययान्तस्य संयम इति रूपं भवति / तथा “तप सन्तापे" इत्यस्य धातोरसुन्प्रत्ययान्तस्य तप इति / तथा “दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिस्वप्नकान्तिगतिषु" इत्यस्य धातोरच्प्रत्य-यान्तस्य जसि देवा इति भवति / अपिशब्दो निपातः / तदित्येतस्य सर्वनाम्नः पुंस्त्वविवक्षायां द्वितीयैकवचनं तमिति भवति / तथा नमसित्यस्य प्रातिपदिकस्य “नमोवरिवश्चिन्नङः क्यच्” (पा० 3-1-19) इति क्यजन्तस्य लट् क्रियान्तादेशस्ततश्च नमस्यन्तीति भवति / तथा यदितिसर्वनाम्रः षष्ठयन्तस्य यस्येति भवति / धर्मः पूर्ववत् / सदेति सर्वस्मिन् काले “सर्वेकान्यकिंयत्तदः काले दा" (पा० 53-15) इति दाप्रत्ययः “सर्वस्य सोऽन्यतरस्यां दि" (पा० 5-3-16) इति स आदेशः सदा / तथा “मन ज्ञाने"इत्यस्य धातोरसुत्प्रत्ययान्तस्य मन इति भवति / इति पदानि / साम्प्रतं पदार्थ उच्यते-तत्र दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, तथा चोक्तम् - "दुर्गति प्रसृतान् जीवान्, यस्माद्धारयते ततः / धत्ते चैतान् शुभे स्थाने, तस्माद् धर्म इति स्मृतः / / 1 / / "