________________ 164 परिशिष्टम् 2-17-18 17 वि०आ०मा० 2708 [चतु. गा० 45 वृ०] साम्प्रतं कालद्वारमभिधित्सुराहसम्मत्तस्स सुयस्स य पडिवत्ती छविहे वि कालम्मि / ... विरई विरयाविरई पडिवज्जइ दोसु तिसु वावि।।२७०८।। सम्यक्त्वस्य श्रुतस्य च द्वयोरप्यनयोः सामायिकयोः प्रतिपत्तिः षड्विधेऽपि सुषमदुःषमादिके काले सम्भवति / पूर्वप्रतिपन्नकास्त्वनयोर्विद्यन्त एव / विरतिं समग्रचारित्रलक्षणां ताम्, तथा, विरताविरतिं देशचारित्रात्मिकां प्रतिपद्यते कश्चिदुत्सर्पिण्यां द्वयोः कालयोः दुःषमसुषमायाम्, सुषमदुःषमयां चेति; अवसर्पिण्यां तु त्रिषु कालेषु सुषमदुःषमायाम्, दुःषमसुषमायाम्, दुःषमायां चेति / पूर्वप्रतिपन्नस्त्विह विद्यत एव / अपिशब्दात् संहरणं प्रतीत्य पूर्वप्रतिपन्नकः सर्वकालेष्वेव सम्भवंति / प्रतिभागकालेषु तु त्रिषु सम्यक्त्वश्रुतयोः प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येव, चतुर्थे च प्रतिभागे चतुर्विधस्यापि सामायिकस्य प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्तु विद्यत एव / बाह्यद्वीपसमुद्रेषु तु कालरहितेषु त्रयाणां सामायिकानां प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येव, चरणस्यापि नन्दीश्वरादौ विद्याचारणादिगमने पूर्वप्रतिपन्नः सम्भवति / / इति नियुक्तिगाथार्थः / / 2708 / / 18 उत्तरा०९/५३ [चतु. गा० 46 वृ.] सलं कामा विसं कामा, कामा आसीविसोपमा / कामे पत्थेमाणा, अकामा जंति दुग्गई / / 53 / / / शलति-देहान्तश्चलतीति शल्य-शरीरान्तःप्रविष्टं तोमरादि शल्यमिव शल्यम्, के ते ? काम्यमानत्वात् कामाः-मनोज्ञशब्दादयः, यथा हि शल्यमन्तश्चलद्विविघबाघाविधायि तथैतेऽपि, तत्त्वत एषामपि सदा बाघाविधायित्वात्, तथा वेवेष्टि-व्योप्नोतीति विषंतालपुटादि, विषमिव विषं कामाः, यथैव हि तदुपभुज्यमानं मधुरमित्यापातसुन्दरमिवाऽऽभाति, अथ च परिणतावतिदारुणमेवमेतेऽपि कामाः, तथा कामाः आस्यो-दंष्ट्रा स्तासु विषमस्येत्याशीविषस्तदुपमाः, यथा ह्ययमज्ञैरवलोक्यमानः स्फुरन्मणिफणाभूषित इति शोभन इव विभाव्यते, स्पर्शनादिभिरनुभूयमानश्च विनाशायैव भवति तथैतेऽपि कामाः, किं च-कामान् प्रार्थयमाना अभिलषन्तोऽपिशब्दस्य लुप्तनिर्दिष्टत्वात् प्रार्थयमाना अपि अकामा इष्यमाणकामाभावात् यान्ति गच्छन्ति दुर्गति दुष्टां नरकादिगतिम्,