________________ खण्ड-३ 163 ननु तदाऽपूर्वकरणस्य पूर्वलब्धस्यैव लाभात् कथमपूर्वता ? इति चेत् / सत्यम्, * किन्तु 'अपूर्वमिवाऽपूर्वं स्तोकवारमेव लाभात्' इति वृद्धाः, सैद्धान्तिकमतं च सर्वमप्येतत्, कार्मग्रन्थिकमतेन तु- 'मिथ्यात्वस्यान्तरकरणं करोति, तत्प्रविष्टश्चोपशंमिकं सम्यक्त्वं लभते, तेन च मिथ्यात्वस्य पुञ्जत्रयं करोति, ततः क्षायोपशमिकपुञ्जोदयात् क्षायोपशमिक सम्यक्त्वं लभते' इत्यलं विस्तरेणेति / / 1218 / / 15 वि०आ०मा० 1222 [चतु. गा० 42 व.] ननूक्तं इत्थं सम्यक्त्वलाभः, अथ देशविरत्यादिलाभः कथम् ? इत्याहसम्मत्तम्मि उ लद्धे पलियपुहत्तेण सावओ होज्जा / चरणो-वसम-खयाणं सागर संखंतरा होति।।१२२२ / / यावत्यां कर्मस्थितौ सम्यक्त्वं लब्धं तन्मध्यात् पल्योपमपृथक्त्वलक्षणस्थितिखण्डे क्षपिते श्रावको देशविरतो भवेत् / ततोऽपि सङ्ख्यातेषु सागरोपमेषु क्षपितेषु चारित्रमवाप्नोति / ततोऽपि सङ्ख्यातेषु सागरोपमेषु क्षपितेषूपशमश्रेणी प्रतिपद्यते, - ततोऽपि सङ्ख्यातेषु सागरोपमेषु क्षपितेषु क्षपक श्रेणिर्भवतीति / / 1222 / / 16 वि०आ०भा० 1223 कियत्सु भवेष्वेवं देशविरत्यादिलाभो भवति ? इत्याहएवं अपरिवडिए सम्मत्ते देव-मणुयजम्मेसु / अण्णयरसेढिवज्जं एगभवेणं व सव्वाई।।१२२३ / / एवमप्रतिपतितसम्यक्त्वस्य देव-मनुष्यजन्मसु संसरणं कुर्वतोऽन्योन्यमनुष्यभवे देशविरत्यादिलाभो भवति / यदिवा तीव्रशुभपरिणामवशात् क्षपितबहुकर्मस्थितेरेकस्मिन्नपि भवेऽन्यतरश्रेणिवर्जाण्येतानि सर्वाण्यपि भवन्ति / श्रेणिद्वयं त्वेकस्मिन् भवे सैद्धान्तिकाभिप्रायेण न भवत्येव, किन्त्वेकैवोपशमश्रेणिः, क्षघकश्रेणिर्वा भवतीति / / तदेवमभिहितं क्रमद्वारम् / / 1223 / /