________________ खण्ड-३ 161 9 दश०नि० 259 [चतु. गा० 39 वृ०] साम्प्रतं काममाहकामो चउवीसविहो संपत्तो खलु तहा असंपत्तो / . संपत्तो चउदसहा दसहा पुण होअसंपत्तो।।२५९।। कामश्चतुर्विशतिविधः ओघतः, संप्राप्तः खलु तथा असंप्राप्तो वक्ष्यमाणस्वरूपः, संप्राप्तः चतुर्दशधा-चतुर्दशप्रकारः, दशधा पुनर्भवत्यसंप्राप्त इति गाथासमासार्थः / / 259 / / व्यासार्थं त्वाह, तत्राप्यल्पतरवक्तव्यत्वादसंप्राप्तमाह10 दशनि० 260 [चतु. गा० 39 वृ.] तत्थ असंपत्तो अत्थो 1 चिंता 2 तह सद्ध 3 संसरणमेव 4 / विक्कवय 5 लज्जनासो 6 पमाय 7 उम्माय 8 तब्मावो 9 / / 260 / / तत्रासंप्राप्तोऽयं कामः, अर्थे 'ति अर्थनमर्थः, अदृष्टेऽपि विलयादौ, श्रुत्वा तदभिप्रायमात्रमित्यर्थः, तत्रैवाहो रूपादिगुणा इत्यभिनिवेशेन चिन्तनं चिन्ता, तथा श्रद्धातत्सङ्गमाभिलाषः, संस्मरणमेव-संकल्पिकतद्रूपस्यालेखादिदर्शनम्, वियोगतः पुनः पुनरतिविक्लवता-तच्छोकातिरेकेणाहारादिष्वपि निरपेक्षता, लज्जानाशो-गुर्वादिसमक्षमपि तद्गुणोत्कीर्तनम्, प्रमादः--तदर्थमेव सर्वारम्भेष्वपि प्रवर्तनम्, उन्मादो-नष्टचित्ततया आलजालभाषणम्, तद्भावना-स्तम्भादीनामपि तद्बुद्ध्याऽऽलिङ्गनादिचेष्टेति गाथार्थः / / 260 / / 11 दश०नि० 261 [चतु. गा० 39 व.] मरणं 10 च होइ दसमो संपत्तं पिअ समासओ वोच्छं / दिट्ठीए संपाओ 1 दिट्ठीसेवा य संभासो 2 / / 261 / / मरणं च-शोकाद्यतिरेकेण क्रमेण भवति दशमः असंप्राप्तकामभेदः / सम्प्राप्तमपि च कामं समासतो वक्ष्य इति, तत्र दृष्टेः पुनः सम्पातः स्त्रीणां कुचाद्यवलोकनं दृष्टिसेवा च-भावसारं तदृष्टेदृष्टिमेलनम्, संभाषणम्-उचितकाले स्मरकथाभिर्जल्प इति गाथार्थः / / 261 / /