________________ 160 परिशिष्टम् 2-7,8 7 वि०आ०मा० 1274 [चतु. गा. 33 वृ.] ननु परिहारिकास्तावदिदमुक्तस्वरूपं तपः कुर्वन्ति, अनुपरिहारिक-कल्पस्थितानां तु का वार्ता ? इत्याहसेसा उ निययभत्ता पायं भत्तं च ताणमायाम / होइ नवण्हं वि नियमा न कप्पए सेसयं सव्वं / / 1274 / / शेषाः पुनरनुपरिहारिक-कल्पस्थिताः पञ्चापि प्रायो नियतभक्ता नित्यभोजिनो भवन्ति / प्रायोग्रहणाद् निजेच्छया कदाचिदुपवासमपि कुर्वन्ति / भक्तं च तेषां सर्वदैवाऽनुपरिहारिककल्पस्थितानां पारणके परिहारिकाणां च सर्वेषामाचाम्लमेव भवति / शेषं तु. विकृतिलेपकृदादिकं वस्तु सर्व नवानामपि नियमाद् न कल्पत इति / / 1274 / / 8 वि०आ०मा० 799-800 [चतु. गा० 34 वृ.] अत एवाह भाष्यकार:खीर-महु-सप्पिसाओवमाउवयणा तयासवा होति / कोट्ठयधन्नसुनिग्गलसुत्तत्था कोहबुद्धीया।।७९९ / / जो सुत्तपएण बहुं सुयमणुघावइ पयाणुसारी सो / जो अत्थपएणत्थं अणुसरइ स बीयबुद्धी उ / / 800 / / चीर्णग्रन्थिपर्णकादिवनस्पतिविशेषस्य चक्रवर्तिसम्बन्धिनो गोलक्षस्याऽर्धार्धक्रमेण पीतगोक्षीरस्य पर्यन्ते यावदेकस्या गोः सम्बन्धि यत् क्षीरं तदिह गृह्यते / मध्वपि किमप्यतिशायिशर्करादिमधुरद्रव्यम् / एवं सर्पिरपि किमप्यतिशायि द्रष्टव्यम् / एवंभूतक्षीरमधुसर्पिषां य आस्वादस्तदुपमाप्यायकवचना ये तीर्थकरगणधरादयस्ते तदाश्रवा मन्तव्याः, क्षीर-मधु-सर्पिराश्रवा इत्यर्थः, वचनेन यथोक्तक्षीरादीनिव ते स्रवन्तः सकलजनं सुखयन्ति / मकारस्य दीर्घत्वम्, उकारश्चाऽलाक्षणिकः / तथा, कोष्ठकधान्यवत् सुनिर्गलोअविस्मृतत्वाचिरस्थायिनौ सूत्रार्थों येषां ते कोष्ठकधान्यसुनिर्गलसूत्रार्थाः कोष्ठबुद्धयः / यस्त्वध्यापकादेकेनापि सूत्रपदेनाऽधीतेन बह्वपि सूत्रं स्वप्रज्ञयाऽभ्यूह्य गृह्णाति स पदानुसारिलब्धिः / “उत्पाद-व्यय-ध्रौव्ययुक्तं सत्" इत्यादिवदर्थप्रधानं पदमर्थपदं तेनैकेनापि बीजभूतेनाऽधिगतेन योऽन्यं प्रभूतमप्यर्थमनुसरति स बीजबुद्धिरिति / / 799 / / 800 / /