________________ खण्ड-३ 152 5 आव०नि० 1091 [चतु. गा० 32 व.] कसिणं केवलकप्पं लोगं जाणंति तह य पासंति / केवलचरित्तनाणी तम्हा ते केवली हुंति।।१०९१ / / कृत्स्नं सम्पूर्णं केवलकल्पं केवलोपमं, इह कल्पशब्द औपम्ये गृह्यते, उक्तं च- "सामर्थ्य वर्णनायां च, छेदने करणे तथा / औपम्ये चाधिवासे च, कल्पशब्दं विदुर्बुधाः / / 1 / / " लोकं पञ्चास्तिकायात्मकं जानन्ति विशेषरूपतया, तथैव सम्पूर्णमेव, चशब्दास्यावधारणार्थत्वात्, पश्यन्ति सामान्यरूपतया, इह ज्ञानदर्शनयोः सम्पूर्णलोकविषयत्वे बहु वक्तव्यम्, तत्तु नोच्यते, ग्रन्थविस्तरभयात्, केवलं 'निर्विशेषं विशेषाणां, ग्रहो दर्शनमुच्यते / / विशिष्टग्रहणं ज्ञानमेवं सर्वत्रगं द्वयम् / / 1 / / ' इत्यनया दिशा स्वयमेवास्यूह्यं, धर्मसङ्गहणी-टीका च परिभावनीया, यतश्चैवं केवलचारित्रिणः केवलशानिनच तस्मात्ते केवलिनो भवन्ति, केवलमेषां विद्यते इति केवलिनः इति व्युत्पत्तेः, अहोऽत्राकाण्ड एव केवलचारित्रिण इति किमर्थमुक्तं ?, उच्यते, केवलचारित्रप्राप्तिपूर्विका नियमतः केवलज्ञानावाप्तिरिति न्यायदर्शनार्थमित्यदोषः / 6 वि०आ०मा० 689 [चतु. गा० 32 वृ.] * अथ विनेयानुग्रहार्थं प्रासङ्गिकं किञ्चिदभिधित्सुर्वक्ष्यमाणं च सम्बन्धयितुमाह परमोहिनाणविओ केवलमंतोमुहुत्तमित्तेण / मणुयक्खओवसमिओ भणिओ, तिरियाण वोच्छामि।।६८९।। परमावधिज्ञानेन वेत्तीति परमावधिज्ञानवित् तस्य परमावधिज्ञानविदः परमावधौ समुत्पन्ने सति किलान्तर्मुहूर्तेनावश्यमेव केवलज्ञानमुत्पद्यते / केवलज्ञानसूर्यस्य ह्युदयपदवीमासादयतः प्रथमप्रभास्फोटकल्पं परमावधिज्ञानम्, अतस्तदनन्तरमवश्यं भवत्येव केवलज्ञानभास्करोदय इति / तदेवं मणितो मनुष्यसम्बन्धी क्षायोपशमिकोऽवधिः / इदानीं तिरश्चाममुं वक्ष्यामि / / इति गाथाचतुष्यार्थः / / 689 / /