________________ 158 परिशिष्टम् 2-4 योगनिरोधस्य फलं जन्मजरामरणप्रबन्धलक्षणाया नरकादिभवसन्ततेरात्यन्तिकः क्षयः / जन्मादिसन्ततिक्षयाञ्च मोक्षावाप्तिः / ऐकान्तिकात्यन्तिकादिगुणयुक्तं स्वात्मन्यवस्थानं मोक्षः / तस्मात्पारंपर्यद्वारेण सर्वकल्याणानां भाजनमाश्रयो विनयः सर्वगुणरूपो (सर्व-कल्याणरूपो) मोक्षः / अथवा गुरुशुश्रूषादि कल्याणं यावदयोगित्वं भवसन्ततिक्षयश्च / सर्वाण्येतानि कल्याणानि / एषां फलं मोक्ष इति / / 74 / / 4 प्रशम०प्र०७४ [चतु. गा० 31 वृ.] आराहणोवउत्तो कालं काऊण सुविहिओ सम्म / उक्कोसं तिनि भवे गंतूणं लहइ निव्वाणं / / 62 / / आराधनोपयुक्तः कालं कृत्वा सुविहितः सम्यक् / उत्कृष्टतनीन् मवान् गत्वा लभते निर्वाणम् / / 62 / / .. आराधकस्य किं फलं 'आरा'० आराधनया उत्तमार्थप्रतिपत्या उपयुक्तः उद्यतः कालं . कृत्वा सुविहितः सुसाधुः सम्यक् उत्कृष्टतोऽतिशयेन सम्यगाराधनां कृत्वा त्रीन् भवान् गत्वा लभते निर्वाणं मोक्षमित्यर्थः / एतदुक्तं भवति / यदि परमसमाधानेन कालं करोति सम्यक् / ततस्तृतीये भवे अवश्यं सिध्यति / / 62 / / अ० अथ आराधकस्य किं फलमित्याह - आराहणा० आराधनया उत्तमार्थप्रतिपत्याऽऽराघनायां वोपयुक्त उद्यतः सावधान इत्यर्थः कालं मरणं कृत्वा सुविहितः सुसाधुः सम्यग् शुद्धभावनोत्कृष्टत उत्कृष्टाराधनाबलात् त्रीन् भवान् गत्वा लभते निर्वाणं मोक्षमित्यर्थः, यदि परमसमाधिना कालं मरणं करोति ततस्तृतीये भवेऽश्यं सिध्यतीति भावः / अत्राह शिष्यः-ग्रन्थान्तरे उत्कृष्टतो निरन्तरमष्टभवाराधनया जघन्यतस्त्वेकभवाराधनयाऽपि सिध्यतीत्युक्तम् / अत्र तु तृतीयभवे सिध्यतीति तदेतत्राप्युत्कृष्टं नापि जघन्यं ततश्च कथं न विरोधः ? उच्यते / यावदेकैनेव भवेन सिध्यतीत्युक्तं तद् वज्रऋषभनाराचसंहननमाश्रित्य एतच्च सेवार्त्तसंहननमङ्गीकृत्योच्यते सेवार्त्तसंहननो हि यद्युत्कृष्टाराधनां करोति ततस्तृतीये भवे सिध्यतीति उत्कृष्टशब्दश्चात्रातिशयार्थः, आराधनाविशेषणं च द्रष्टव्यः न तु भवानङ्गीकृत्य, भवाङ्गीकारे पुनरुकृष्टतोऽष्टभिरेव भवैः सेवार्त्तसंहननः सिध्यतीति न विरोधः / / 62 / /