________________ खण्ड-३ 157 इत्यादि / तस्माद् नयनेन्द्रियस्य सातिरेकयोजनलक्षस्वरूपं विषयपरिमाणं यथा श्रुते प्रज्ञापनादिकेऽभिहितम्, तथा तेन प्रकारेणाऽऽत्माङ्गुलोत्सेघाङ्गुलप्रमाणाअलानामेकेनापि गृह्यमाणं न युक्तम्, प्रमाणागुलनिष्पन्नस्यापि योजनलक्षस्य तन्निष्पन्नसातिरेकैकविंशतियोजनलक्षेभ्य एकविंशतितमभागवर्तित्वेन बृहदन्तरत्वात् / तस्मादेकत्र सातिरेकं लक्षम्, अन्यत्र तु सातिरेकैकविंशतिलक्षाणि योजनानां नयनस्य विषयप्रमाणं ब्रुवतः श्रुतस्य पूर्वापरविरोधः / इति परस्याऽऽकूतम् / / इतिगाथाद्वयार्थः / / 345 / / 346 / / 1 प्रशम० प्र० 72 [चतु. गा० 30 वृ.] सम्प्रति विनयस्य पारम्पर्येण पर्यन्तवति मोक्षाख्यं फलं दर्शयन्नाहविनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् / ज्ञानस्य फलं विरतिविरतिफलं चाश्रवनिरोधः।।९२३ / / विनयस्य फलं शुश्रूषा श्रोतुमिच्छा यदाचार्य उपदिशति तत् सम्यक् शुश्रूषते श्रुत्वा चानुतिष्ठति / गुरोः सकाशादाकर्ण्य किं फलमिहावाप्यतेऽत आह-गुरुशुश्रूषायाः फलं श्रुतज्ञानमागमज्ञानलाभ'इत्यर्थः / ज्ञानस्य किं फलं ? विरतिराश्रवद्वारेभ्यो निवृत्तिः / विरतेः फलमाश्रवद्वारस्थगनम् / विरतौ सत्यामाश्रवद्वाराणि स्थगितानि भवन्ति / ततश्चाश्रवद्वारस्थगनात् संवरो जायते फलभूतः संवरात्मा भवति अपूर्वकर्मप्रवेश निरोधः।।७२।। 2 प्रशम०प्र० 73 [चतु. गा० 30 वृ०] संवरफलं तपोबलमथ तपसो निर्जराफलं दृष्टम् / तस्माक्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम्।।७३ / / संवरस्य फलं तपोऽनुष्ठानं प्राक्तनकर्मक्षपणार्थम् / तपसि बलं तपोबलं तपसि कर्तव्ये शक्तिविशेषः / तपसस्तु निर्जराफलं कर्मपरिशाटनम् / तस्मात् कर्मापगमात् क्रिया निवर्तते सैव फलं निर्जरायाः / क्रियानिवृत्तेर्निरूद्धयोगः स्यात् अयोगित्वात् / / 73 / / 3 प्रशम०प्र० 74 [चतु. गा० 30 वृ.] योग निरोधाद्भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः / ... तस्मात्कल्याणानां सर्वेषां भाजनं विनयः।।९२३ / /