________________ खण्ड-३ 155 v आव०म०वृ० 965 [चतु. गा० 25 वृ.] तथा चाहईसीपब्माराए उवरिं खलु जोअणस्स जो कोसो / कोसस्स य छन्माए सिद्धाणोगाहणा भणिआ।।९६५।। ईषत्प्राग्भारायाः पृथिव्या उपरि यत् खलु योजनं तस्य योजनस्य उपरितनः क्रोशोगव्यूतं तस्य क्रोशस्योपरितने भागे सिद्धानामवगाहना तीर्थकरगणधरैपिता, 'लोकाग्रे च प्रतिष्ठिता' इति वचनात् / / 965 / / W आव०म०वृ० 988 [चतु. गा०.२५ वृ.] साम्प्रतमुपसंहरतिनिच्छिन्नसव्वदुक्खा जाइजरामरणबंधणविमुक्का / अव्वाबाहं सोक्खं अणुहवंती सया कालं / / 988 / / निस्तीर्णमतिक्रान्तं सर्वमशेषं दुःखं यैस्ते निस्तीर्णसर्वदुःखाः, जातिः-जन्म, जरावयोहानिः, मरणं-प्राणत्यागः बन्धन-संसारबन्धहेतुरष्टप्रकारं कर्म तैविमुक्ताः , अव्याबाधंव्याबाधारहितं सौख्यं सदाकालमनुभवन्ति / / 988 / / x आव०नि० 986 [चतु. गा० 26 व.] इय सव्वकालतित्ता, अउलं निव्वाणमुवगया सिद्धा। सासयमव्वाबाहं, चिटुंति सुही सुहं पत्ता / / 986 / / 'इअ' एवं सर्वकालतृप्ताः स्वस्वभावावस्थितत्वात्, अतुलं निर्वाणमुपगताः सिद्धाः, सर्वदा सकलौत्सुक्यविनिवृत्तेः, यतश्चेवमतः शाश्वतं सर्वकालभावि अव्याबाधं व्याबाधापरिवर्जितं सुखं प्राप्ताः सुखिनः सन्तः तिष्ठन्तीति योगः / सुखं प्राप्ता इत्युक्ते सुखिन इत्यनर्थकम् , न, दुःखाभावमात्रमुक्तिसुखनिरासेन वास्तवसुखप्रतिपादनार्थत्वादस्य, तथाहिअशेषदोषक्षयतः शाश्वतमव्याबाधं सुखं प्राप्ताः सुखिनः सन्तस्तिष्ठन्ति न तु दुःखाभावमात्रान्विता एवेति गाथार्थः / / 986 / /