________________ 154 परिशिष्टम् 2-T-U प्रस्तावादनन्तभवेभ्य इत्यर्थः / अनन्तभवमोचनाञ्च मोक्ष प्रापयतीत्युक्तं भवति / यद्यपि च कांश्चित् तद्भव एव मोक्षं न प्रापयति तथापि भावेनोपयोगविशेषेण क्रियमाणो भावना विशेषत एवान्यस्मिन्नपि जन्मनि पुनरपि बोधिलाभाय भवति / बोधिलाभश्च निश्चितोऽचिराद् मोक्षहेतुरिति / एवं बाह्याभ्यन्तरेण नामादिचतुर्विधविधानेन नमस्कारः क्रियमाणो जीवं भवाद् मोचयति, पुनर्बोधिबीजं च जायते / / इति नियुक्ति गाथार्थः / / 3009 / / T आव०म०७० 977 [चतु. गा० 24 व.] साम्प्रतं सिद्धानेव लक्षणतः प्रतिपादयतिअसरीरा जीवघणा उवउत्ता दंसणे य णाणे य / . सागारमणागारं लक्खणमेयं तु सिद्धाणं / / 977 / / अविद्यमानशरीरा अशरीराः, औदारिकादिपञ्चविधशरीररहिता इत्यर्थः, जीवाश्च ते घनाश्च शुषिरापूरणात् जीवघनाः, उपयुक्ता दर्शने च-केवलदर्शने ज्ञाने च-केवलज्ञाने / इह सामान्यसिद्धलक्षणमेतदितिज्ञापनार्थं सामान्यालम्बनदर्शनाभिधानमादावुक्तम्, तथा च सामान्यविषयं दर्शनं विशेषविषयं ज्ञानम्, तत् साकारानाकारं-सामान्यविशेषरूपं लक्षणंतदन्यव्यावृत्तं स्वस्वरूपम् एतदनन्तरोक्तम्, तुशब्दो निरुपमसुखसञ्चयार्थः, सिद्धानांनिष्ठितार्थानामिति / / 977 / / U आव०नि० 978 [चतु. गा. 24 वृ.] केवलनाणुवउत्ता जाणंती सव्वभावगुणभावे / पासंति सबओ खलु केवलदिट्ठीहिंऽणंताहिं / / 978 / / केवलज्ञानेनोपयुक्ताः केवलज्ञानोपयुक्ताः न त्वन्तःकरणेन, तदभावादिति, किम् ? जानन्ति अवगच्छन्ति सर्वभावगुणभावान् सर्वपदार्थगुणपर्यायानित्यर्थः, प्रथमो भावशब्दः पदार्थवचनः द्वितीयः पर्यायवचन इति, गुणपर्यायभेदस्त्वयं सहवर्तिनो गुणाः क्रमवर्तिन; पर्याया इति, तथा पश्यन्ति सर्वतः खलु खलुशब्दस्यावधारणार्थत्वात् सर्वत्त एव, केवलदृष्टिभिरनन्ताभिः केवलदर्शनैरनन्तैरित्यर्थः, अनन्तत्वात् सिद्धानामिति, इह चाऽऽदौ ज्ञानग्रहणं प्रथमतया तदुपयोगस्थाः सिद्ध्यन्तीति ज्ञापनार्थमिति गाथार्थः / / 978 / /