________________ खण्ड-३ 153 R आव०नि० 580 [चतु. गा० 20 व.] सव्वाउअंपि सोया खवेज्ज जइ हु सययं जिणो कहए / सीउण्हखुप्पिवासापरिस्समभए अविगणेतो।।५७९ / / व्याख्या-भगवति कथयति सति सर्वायुष्कमपि श्रोता क्षपयेत् भगवत्समीपवत्येव, यदि हु सततम् अनवरतं जिनः कथयेत् / किंविशिष्टः सन्नित्याह-शीतोष्णक्षुत्पि पासापरिश्रमभयान्यविगणयन्निति गाथार्थः / / 579 / / s आव० म० वृ० 923 [चतु. गा० 22 व.] इदानीममोघताख्यापनार्थमपान्तरालिकं नमस्कारफलमुपदर्शयतिअरिहंतनमुक्कारो जीवं मोएइ भवसहस्साओ / भावेण कीरमाणो होइ पुणो बोहिलाभाए।।९२३ / / अर्हतां नमस्कारोऽर्हनमस्कारः, इह अर्हच्छब्देन बुद्धिस्था अर्हदाकारवती स्थापना गृह्यते, नमस्कारस्तु नमःशब्द * एव, भावेन-उपयोगेन क्रियमाणः, अनेन नामस्थापनाद्रव्यभावलक्षणश्चतुर्विधो यद्यपि नमस्कारस्तथाऽप्यत्र भावनमस्कारो द्रष्टव्य इत्युक्तं वेदितव्यम्, जीवम्-आत्मानं मोचयति-अपनयति भवसहस्रेभ्यः, यद्यपि सहस्रशब्दो दशशतसङ्ख्यायां वर्तते तथाऽप्यत्रादिनन्तसङ्ख्यायामवगन्तव्यः, अनन्तभव मोचनान्मोक्षं प्रापयतीत्युक्तं द्रष्टव्यम् / आह-न सर्वस्यैव भावतोऽपि नमस्कारकरणे ... तद्भव एव मोक्षः तत्कथमुच्यते-जीवं मोचयतीत्यादि ? उच्यते, यदि तद्भव एव मोक्षाय न भवति, तथापि भावनाविशेषाद्भवति पुनर्बोधिलाभाय, बोधिलाभश्चाचिरादविकलो मोक्षहेतुरित्यतो न दोषः / / 923 / / वि०आ०मा० 3009 इदानीममोघताख्यापनार्थमपान्तरालिकं नमस्कारफलमुपदर्शयतिइह नाम-स्थापना-द्रव्य-भावलक्षणनमस्कारश्चतुर्विधो गृहीतः / तत्रार्हच्छब्देन बुद्धिस्था अर्हदाकास्वती स्थापना गृह्यते, तस्या नमस्कारः स्थापनानमस्कार इति व्युत्पत्त्या स्थापनानमस्कारः संगृहीतः / नमोक्कारो त्ति इत्यनेन नामनमस्कारः / कीरमाणो त्ति अञ्जलि-प्रग्रहादिना क्रियमाण इत्यनेन द्रव्यनमस्कारः / भावेण त्ति अनेन तु भावनमस्कार इति / तत्रार्हन्नमस्कारः क्रियमाणो जीवं मोचयति भवसहस्रात्