________________ 152 परिशिष्टम् 2-P, Q,Q-1 निर्वाणसाधकान् योगान्-सम्यग्दर्शनादिप्रधानान् व्यापारान् साधयन्ति साधवः, विहितानुष्ठानपरत्वात्, समाश्च सर्वभूतेषु, एतच्च योगप्राधान्यख्यापनार्थमुक्तम्, तस्मात् भवन्ति भावसाधवः / / P उप० मा० 3 [चतु. गा० 14 व.] संवच्छरमुसमजिणो, छम्मासा वद्धमाणजियचंदो / इअ विहरीया निरसणा, जइज्ज एओवमाणेणं / / 3 / / व्याख्या-'संवच्छरेत्ति' संवत्सरं वर्षं यावद् ऋषभो जिनः श्रीप्रथमतीर्थंकरः, षण्मासान् यावत् श्रीवर्द्धमानजिनचन्द्रो वर्द्धमानाभिधानस्तीर्थंकरः, सर्वगुणैः प्रधानत्वाज्निनचन्द्र इति पदं दत्तम् / अनया रीत्या एतौ द्वावपि तीर्थंकरौ विहरिया इति विहतौ पर्यटितौ, निरशनी भोजनरहितौ उपोषिताविति यावत्, शिष्यं प्रत्युपदेशमाह-जइज्जएत्ति यतेत तत्र कर्मणि यत्नं कुर्यात्, भगवदृष्टान्तेन वीरवदन्येनापि तपः कर्त्तव्यम् / / 3 / / वि०आ०मा० 3247 [चतु. गा० 16 वृ०] .. कुज्जा जिणाइपूया परिणामविसुद्धिहेउओ निच्चं / दाणादओ य मग्गप्पभावणाओ य कहणं च।।३२४७।। कार्या नित्यं जिनादिपूजेति प्रतिज्ञा, स्वपरिणामविशुद्धिहेतुत्वादिति हेतुः, दानादिवदिति दृष्टान्तः / अथवा कार्या नित्यमेव जिनादिपूजा, मोक्षमार्गप्रभावकत्वात्, धर्मकथनवदिति / / 3247 / / / Q-1 आव० नि० 577 [चतु. गा० 19 वृ०] वासोदयस्स व जहा वण्णादी होति भायणविसेसा / / सव्वेसिपि सभासा जिणमासा परिणमे एवं / / 577 / / वर्षोदकस्य वा वृष्टयुदकस्य वा, वा शब्दात् अन्यस्य वा, यथैकरूपस्य सतः वर्णादयो भवन्ति, भाजनविशेषात् कृष्णसुरभिमृतिकायां स्वच्छं सुगन्धं रसवच्च भवति ऊषरे तु विपरीतम्, एवं सर्वेषामपि श्रोतृणां स्वभाषया जिनभाषा परिणमत इति गथार्थः / / 577 / /