________________ खण्ड-३ साफल्यमनुभवतिः, अतः 'जंतुकम्म' इत्येतदन्यथा व्याख्यायते-जन्तु वस्तस्य कर्म जन्तुकर्म / अनेनाबद्ध-कर्मव्यवच्छेदमाह- बद्धं यत् कर्मेत्यर्थः / कथंभूतं यत् कर्म जन्तुकर्म वा ? इत्याह- 'से सियमट्ठह त्ति' ज्ञानावरणाद्यष्टप्रकारैः पूर्व 'से' तस्य सितं बद्धमित्यर्थः / अथवा, ‘से सियं ति' अनाभोगनिर्वर्तितयथाप्रवृत्तकरणेन सम्यग्ज्ञानाधुपायतश्च क्रमेण शेषितं शेषं कृतं स्थित्यऽनुभवादिभिरल्पीकृतमित्यर्थः / तद् दीर्घकालस्थितिकं रजोरूपं भव्यस्य संबन्धि यत्कर्म जन्तूकर्म वा पूर्वमष्टधा बद्धं तत् क्रमेण शेषितं सत् किम् ? इत्याह-'सियं धंतं ति त्ति' सितमित्थं बद्धं ध्मातं तीव्रध्यानानलेन दग्धं क्षपितं महाग्निना लोहमलवदस्येति सिद्ध इति निरुक्तिः / एवं च कर्मदहनानन्तरं सिद्धस्यैव सतः सिद्धत्वमुपजायते नासिद्धस्य, ‘नेरइएसु उववज्जइ' इत्यादिनिचयनयमताश्रयणादिति / उपजायति इति सदात्मनः स्वाभाविकं सत्सिद्धत्वमनादिकर्मावृतं तदावरणविगमेनाविर्भवत्येव, न पुनरसदुपजायत इति प्रतिपत्तव्यम्, असतः खरविषाणस्येव जन्मायोगादिति / अथवा सिद्धस्य सिद्धत्वं सद्भावरूप-मुपजायते, न तु प्रदीपनिर्वाणकल्पमभावरूपमिति / एवं नयमतान्तरव्यवच्छेदार्थमेतत् / तथा चाहुरेके "दीपो यथा निवृतिमभ्युपेतो नेवावनिं गच्छति नान्तरिक्षम् / दिशं न काशिद् विदिशं न काश्चित् स्नेहक्षयात् केवलमेति नाशम् / / 1 / / जीवस्तथा निर्वृतिमभ्युपेतो नेवावनिं गच्छति नान्तरिक्षम् / दिशं न काश्चिद् विदिशं न काञ्चित् स्नेहक्षयात् केवलमेति शान्तिम् / / 2 / / " इत्यादि / एवंविधासिद्धाभ्युपगमे दीक्षादिप्रयासवैयर्थ्यात्; निरन्वयक्षणभङ्गस्य चाघटमानत्वादिति / अथवा 'दीहकालरयं ति' एतदन्यथा व्याख्यायते-रयो वेगश्चेष्टाविशेषः, फलम्, अनुभव. इत्यनर्थान्तरम् / ततश्च संतानेनानुभूयमानत्वाद् दीर्घकालोऽनुभवो यस्य तद् दीर्घकालरयं यद् भव्यकर्म जन्तुकर्म वा / तथा 'सेसियं ति' एतदप्यन्यथा व्याख्यायतेलेश्याविशेषाश्लेषितं वहन्ययोगोलकन्यायाज्जीवेन सह संश्लेषमुपगतम् / अष्टधा सितमित्यादि तु तथैव / / इति नियुक्तिश्लोक सक्षेपार्थः / / 947 / / 0 आव०नि० 1004 [चतु. गा. 11 व.] सम्प्रति भावसाधून् प्रतिपादयतिनिव्वाणसाहए जोगे, जम्हा साहति साहुणो / समा य सबभूएसु, तम्हा ते भावसाहुणो।।१०१०।।