________________ 150 परिशिष्टम् 2-L, M,N L आव० नि० 1214 [चतु. गा. 7 व.] आवस्सएसु जह जह कुणइ पयत्तं अहीणमइरित्तं / तिविहकरणोवउत्तो तह तह से निज्जरा होइ।।१२१४।। आवश्यकेषु अवनतादिषु दोषत्यागलक्षणेषु च यथा 2 करोति प्रयत्नम् अहीनातिरिक्तं न हीनं नाप्यधिकम्, किम्भूतः सन् ? त्रिविधकरणोपयुक्तः, मनोवाक्कायै-रुपयुक्त इत्यर्थः, तथा 2 'से' तस्य वन्दनकर्तुनिर्जरा भवति-कर्मक्षयो भवति, तस्माञ्च निर्वाणप्राप्तिरिति, अतो. दोषपरिशुद्धादेव फलावाप्तिरिति गाथार्थः / / 1214 / / M आव०म०वृ० 921 [चतु. गा० 11 वृ.] अरिहंति वंदणनमंसणाणि अरिहंति पूयसकारं / सिद्धिगमणं च अरिहा अरिहंता तेण वुझंति।।९२१।। 'अर्ह पूजायाम्' अर्हन्ति वन्दननमस्करणे, तत्र वन्दनं शिरसा, नमस्करणं वाचा, तथा सिद्ध्यन्ति-निष्ठितार्था भवन्त्यस्यां प्राणिन इति सिद्धिः-लोकान्तक्षेत्रलक्षणा, वक्ष्यति-'इहं बोंदि चइत्ताणं तत्थ गंत्तूण सिज्झइ' तद्गमनं च प्रति अर्हन्तीत्यर्हा:-योग्याः ‘अच' इत्यच, तेन कारणेनार्हन्त उच्यन्ते, अर्हन्तः / / 921 / / N आव०नि० 947 [चतु. गा० 11 व.] अथ कर्मक्षयसिद्धमेव प्रपञ्चतो निरुक्तविधिना प्रतिपादयन्नाहदीहकालरयं जंतु कम्मं से सियमट्ठहा / सियं धंतं ति सिद्धस्स सिद्धत्तमुवजायइ / / 947 / / व्याख्या-दीर्घः संतानापेक्षयाऽनादित्वात् स्थितिबन्धकालो यस्य तद् दीर्घकालम्, निसर्गनिर्मलजीवस्यानुरञ्जनाद् मालिन्यापादनाद् रजः, अथवा, स्नेहेन बन्धनयोग्यं भवतीति साम्याद् रजः, सूक्ष्मत्वसाम्याद् वा रज इति कर्मण एव विशेषणम्, दीर्घकालं च तद् रजश्चेति दीर्घकालरजः, 'जंतु कम्मं ति' दीर्घकालरजोरूपं यत् कर्म दीर्घकालस्थितिकं रजोरूपं यत् कर्मेत्यर्थः, एतच्चैवंविधं कर्म, तुशब्दस्य विशेषणार्थत्वादत्र भव्यस्य संबन्धि गृह्यते, नाभव्यस्य, तस्य वक्ष्यमाणध्मातत्वायोगात् / अथवा, भव्यसंबन्धित्वमिह कर्मणो ध्मातत्वसामर्थ्यादेव लभ्यते / यच्छब्दोऽपि साक्षादुपात्ते कर्माणि न तथाविधं