________________ 144 परिशिष्टम् 2-B स्यावासकमित्यावासकमित्याद्यपरमपि स्वधिया वाच्यम्, पूर्वमपि च व्युत्पादितमिदम् / तथा मुमुक्षुभिर्नियमानुष्ठेयत्वादवश्यकरणीयम् / तथा ध्रुवनिग्रह इति, अत्रानादित्वात् क्वचिदपर्य-वसितत्वाच्च ध्रुवं कर्म तत्फलभूतः संसारो वा, तस्य निग्रहहेतुत्वान्निग्रहो ध्रुवनिग्रहः / तथा कर्ममलिनस्याऽऽत्मनो विशुद्धिहेतुत्वाद्विशुद्धिः / तथा सामायिकादिषडध्ययनकलापात्म-कत्वादध्ययनषड्वर्गः / तथाऽभिप्रेतार्थसिद्धेः सम्यगुपायत्वात् न्यायः अथवा जीवकर्मसम्बन्धापनयनान्न्यायः, अयमभिप्रायः-यथा कारणिकैर्दष्टो न्यायो द्वयोरर्थिप्रत्यर्थिनोभूमिद्रव्यादिसम्बन्धं चिरकालीनमप्यपनयत्येवं जीवकर्मणोरनादिकालीनमप्याश्रयाश्रयिभावसम्बन्धमपनयतीत्यावश्यकमपि न्याय उच्यते / तथा मोक्षाराधनाहेतुत्वादाराधना / तथा मोक्षपुरप्रापकत्वादेव मार्ग इति गाथार्थः / / 2 / / B अनु.दा.सू. 73 [चतु. गा. 1] आवस्सगस्स णं इमे अत्थाहिगारा भवंति / तं जहासावज्जजोगविरई 1, उक्कित्तण 2, गुणवओ य पडिवत्ती 3 / खलियस्स निंदणा 4, वणतिगिच्छ 5, गुणधारणा 6 चेव।।६।। अनु०५० सीसो पुच्छति - कहं छव्विहमावस्सयं ति ? भण्णति - ‘जतो सामादियादियाण सावज्जवज्जणादि छव्विहो अत्थणिबंधो, इमे य ते अत्था - सावज्जजोग० गाधा / पढमे सामादियज्झयणे पाणातिवायादिसव्वसावज्जजोगविरती कातव्वा / बितिए दरिसणविसोहिणिमित्तं पुणो बोहिलाभत्थं च कम्मखवणत्थं च तित्थकराणामुक्कित्तणाकता / ततिए चरणादिगुणसमूहवतो वंदण-णमंसणादिएहिं पडिवत्ती कातव्वा / चतुत्थे मुलुत्तरा-वराधक्खलणाए क्खलितो पच्चागतसंवेगो विसुज्झमाणभावो पमादकरणं संभरंतो अप्पणो जिंदणगरहणं करेति / पंचमे व्रणसाधम्मोवणएण दसविधपच्छित्तेण चरणादियारव्रणस्स चिगिच्छं करेति / छट्टे जहा मूलुत्तरगुणपडिवत्ती निरतियारधारणं च जधा तेसिं भवति तधा अत्थपरूवणा / हा वृ० आह - किं पुनरिदमावश्यकं षडध्ययनात्मकम् ? इति, उच्यते - षडाधिकारविनियोगात् / क एतेऽर्थाधिकाराः ? इति तानुपदर्शयन्नाह - आवस्सगस्स णमित्यादि / सावज्ज गाहा, व्याख्या - सावधयोगविरतिः सपापव्यापारविरमणं सामायिकााधिकारः / उत्कीर्तनेति सकलदुःखविरेकभूतसावद्ययोगविरत्युपदेशकत्वादुपकारित्वात् सद्भूतगुणोत्कीर्तनकरणादन्तःकरणशुद्धेः प्रधानकर्मक्षयकारणत्वाद् दर्शनविशुद्धिः (द्धेः) पुनर्बोधिलाभहेतुत्वाद् भगवतां जिनानां यथाभूतान्यासाधारणगुणोत्कीर्तना चतुर्विंशतिस्तवस्येति /