________________ परिशिष्टः-२ / / बृहद्विवरणान्तर्गतोद्धरणपाठानामुपलब्धवृत्तयः / / A अनु.दा.सू. 29 [चतु. गा० 1 वृ.]. आवस्सयं 1, अवस्सकरणिज्जं 2, धुव-णिग्गहो 3, विसोही य 4 / अज्झयणछक्कवग्गो 5, नाओ 6, आराहणा 7, मग्गो 8 / 2 / / आव००आवस्सगं० गाहा आवस्सगकरणिज्जं जं तं आवासं / अहवा गुणाणमाधारत्तणतो आवास इव आवासं / अहवा आ मज्जायाए वासं करेइ त्ति आवासं / अहवा जम्हा तं आवासयं जीवं आवासं करेति सण-णाण-चरणगुणाण तम्हा तं आवासं / अहवा तक्करणातो णाणादिया गुणा आवासेंति त्ति आवासं / अहवा आ मज्जायाए पसत्थभावणातो आवासं / अहवा आ मज्जाताए, वस आच्छादने [पा० धा० 1023, का० धा० 4/47] पसत्थगुणेहि अप्पाणं छादेतीति आवासं / अहवा सुण्णमप्पाणं तं पसत्थभावेहिं आवासेतीति आवासं / कम्मऽट्ठविहं धुवं, कसाया इंदिया वा धुवा, इमेण जम्हा तेसिं णिग्गहो क़ज्जति तम्हा धुवणिग्गहो / अवस्सं वा निग्गहो धुवणिग्गहो / कम्ममलिणो आता विसोहिज्जतीति विसोधी / सामादिकादि गण्यमानानि षडध्ययनानि समूहो वग्गो / णायो युक्तम् / अभिप्रेतार्थसिद्धिः आराधणा / मोक्खस्स सव्वप सत्थभावाण वा लद्धीण वा पंथो, मार्ग इत्यर्थः / / 2 / / हावृ० अवश्यक्रियानुष्ठानादावश्यकम्, गुणानां वा आवश्यकमात्मानं करोतीत्यावश्यकम् / अवश्यकरणीयमिति मोक्षार्थिना नियमानुष्ठेयमिति / ध्रुवनिग्रह इति - अत्रानादित्वात् प्रायोऽनन्तत्वाच्च ध्रुवं कर्म तत्फलभूतो वा भवः, तस्य निग्रहो ध्रुवनिग्रहः, निग्रहहेतुत्वान्निग्रहः / तथा कर्ममलिनस्याऽऽत्मनो विशुद्धिहेतुत्वाद् विशुद्धिः / अध्ययनषट्कवर्गः सामायिकादिषडध्ययनसमुदायः / सम्यग् जीवकर्मसम्बन्धव्यवहारापनयनाद् न्यायः / मोक्षाराधनानिबन्धनत्वाद् आराधना / मार्गः पन्थाः शिवस्येति गाथार्थः / हे०३० श्रमणादिभिरवश्यं क्रियत इति निपातनादावश्यकम्, अथवा ज्ञानादिगुणा मोक्षो वा आ समन्ताद्वश्यः क्रियतेऽनेनेत्यावश्यकम्, अथवा आ समन्ताद्वश्या इन्द्रियकषायादिभावशत्रवो येषां ते तथा, तैरेव क्रियते यत् तदावश्यकम्, अथवा समग्रस्यापि गुणग्राम