________________ खण्ड-३ 145 हे०वृ० गुणवतश्चप्रतिपत्त्यर्थं [वन्दना] वन्दनाध्ययनस्य / तत्र गुणाः मूलगुणोत्तरगुणव्रत - पिण्डविशुद्धयादयो गुणा अस्य विद्यन्त इति गुणवान्, तस्य गुणवतः प्रतिपत्त्यर्थं वन्दनादिलक्षणा [प्रतिपत्तिः] कार्येति / उक्तं च - पासत्थादी [आवश्यक नि० 1108] गाहा / चशब्दात् पुष्टमालम्बनमासाद्याऽगुणवतोऽपीत्याह / उक्तं च - परियाय० [आवश्यकनि० 1128] गाहा / स्खलितस्य निन्दा प्रतिक्रमणार्थाधिकारः, कथञ्चित् प्रमादतः स्खलितस्य मूलगुणोत्तरगुणेषु प्रत्यागतसंवेगविशुद्धयमानाध्यवसायस्य प्रमादकरणमनुस्मरतोऽकार्यमिदमतीवेति भावयतो निन्दाऽऽत्मसाक्षिकीति भावना / व्रणचिकित्सा कायोत्सर्गस्य, इयमत्र भावना - निन्दया शुद्धिमनासादयत व्रणसाधोपनयेनाऽऽलोचनादिदशविधप्रायश्चित्तभैषजेन चरणातिचारव्रणचिकित्सेति गुणधारणा प्रत्याख्यानस्यार्थाधिकार इति, अयमत्र भावार्थः- यथेह मूलगुणोत्तरगुणप्रतिपत्तिः निरतिचारसन्धारणं च तथा प्ररूपणमर्थाधिकार इति / चशब्दादन्ये चापान्तरालार्थाधिकारा विज्ञेया इति / एवकारोऽ-वधारण इति गाथार्थः / एषां च प्रत्यध्ययनमाधिकारद्वार एवावकाशः प्रत्येतव्यः / आह - नन्वावश्यके किमिति षडध्ययनानि ? अत्रोच्यते, षडाधिकारयोगात् / के पुनस्ते इत्याशङ्कय तदुपदर्शनार्थमाह - आवस्सगस्स णमित्यादि / आवश्यकस्य एते वक्ष्यमाणा अर्थाधिकारा भवन्ति, तद्यथा - सावज्जजोग गाहा / व्याख्या - प्रथमे सामायिकलक्षणे अध्ययने प्राणातिपातादिसर्वसावद्ययोगविरतिराधिकारः 1 / उक्लित्तण त्ति द्वितीये चतुर्विंशतिस्तवाध्ययने प्रधानकर्मक्षयकारणात्वाल्लब्धबोधिविशुद्धिहेतुत्वात् पुन-र्बोधिलाभफलत्वात् सावद्ययोगविरत्युपदेशकत्वेनोपकारित्वाच्च तीर्थकराणां गुणोत्कीर्तनाऽर्थाधिकारः / गुणवओ य पडिवत्ति त्ति, गुणा मूलोत्तरगुणरूपा व्रतपिण्डविशुद्धयादयो विद्यन्ते यस्य स गुणवाँस्तस्य प्रतिपत्तिर्वन्दनादिका कर्तव्येति तृतीये वन्दनाध्ययनेऽर्थाधिकारः / चशब्दात् पुष्टालम्बनेऽगुणवतोऽपि प्रतिपत्तिः कर्तव्येति द्रष्टव्यम् / उक्तं च - परियाय परिस पुरिसं खेत्तं कालं च आगमं नाउं / कारणजाए जाए जहारिहं जस्सं जं जोग्गं / / 1 / / [आव०नि० 1128] ति 3 / खलियस्स निंदण त्ति स्खलितस्य मूलोत्तरगुणेषु प्रमादाचीर्णस्य प्रत्यागतसंवेगस्य जन्तोर्विशुद्धयमानाध्यवसायस्याऽकार्यमिदमिति भावयतो निन्दा प्रतिक्रमणेऽर्थाधिकारः 4 / वणतिगिच्छ त्ति व्रणचिकित्सा कायोत्सर्गाध्ययनेऽर्थाधिकारः / इदमुक्तं भवति - चारित्रपुरुषस्य योऽयमतिचाररूपो भावव्रणस्तस्य दशविधप्रायश्चित्तभेषजेन कायोत्स