________________ अवचूरिवृत्तिसहितं चतुःशरणम् 113 जिनधर्मोऽर्हद्धर्मो न कृतो न विहितः, आलस्यमोहादिभिः कारणैर्गतविवेकत्वात्, तथा न केवलं चतुरङ्गजिनधर्मो न कृतः, किन्तु चतुरङ्गं शरणमप्यर्हत्सिद्धसाधुधर्मरूपमपि न कृतम्, तथा चतुरङ्गभवस्य नरकतिर्यग्नरामरलक्षणस्य छे दो विनाशो विशिष्टचारित्रतपश्चरणादिना न कृतो येनेत्यध्याहार्यं तेन / 'हा' इति खेदे हारितं वृथा नीतं जन्म मनुष्यभवः, प्राकृतत्वात्पुंस्त्वम्, तस्य हारणं चाऽकृतधर्मस्य जीवस्य पुनरतिशयेन मानुष्यस्य दुष्प्रापत्वाद् / अथवा स एव प्रमादादिना पूर्वमनाराधितजिनधर्मोऽन्त्यसमये सञ्जातविवेकः स्वयमात्मानं शोचयति-चतुरङ्गो जिनधर्मो मया न कृत इत्यादि हा मया हारितं निष्फलीकृतं मनुष्यजन्म / देवा अपि विषयप्रमादादकृतजिनजन्म महोत्सवादिपुण्याश्च्यवनसमये अनेनैव प्रकारेण खेदं कुर्वन्ति / / 62 / / गुण० चत्वारि दानशीलतपोभावनारूपाण्यङ्गानि यस्य स चतुरङ्गो जिनधर्मोऽर्हद्धर्मः, . न कृतो न विहितः, आलस्यमोहादिभिः कारणैर्विगतविवेकत्वात् / तथा न केवलं चतुरङ्गधर्मो न कृतः, किन्तु चतुरङ्गशरणमप्यर्हत्सिद्धसाधुधर्मशरणमपि न कृतम् / तथा चतुरङ्गभवस्य नरंकतिर्यग्नरामरलक्षणस्य छेदो विनाशो विशिष्टचारित्रतपश्चरणादिना न कृत इति / 'हा' इति खेदे हारितं वृथा नीतं जन्म मानुषभवस्तस्य हारणं चाकृतधर्मत्वेनातिशयेन मानुषत्वस्य पुनः दुष्प्राप्तत्वात् / / 62 / / सोम० अथ प्रस्तुताध्ययनोपसंहारमाह... इय जीय ! पमायमहारिवीरभदंतमेयमज्झयणं / झाएसु तिसंझमवंझकारणं निव्वुइसुहाणं / / 63 / / सोम० इति उक्तप्रकारेण हे जीव ! हे आत्मन् ! एतदध्ययनं ध्याय स्मर त्रिसन्ध्यं संध्यात्रये इति सम्बन्धः, कथम्भूतम् ? पमायमहारिवीरं प्रमादा एव महान्तोऽरयः शत्रवः, चतुर्दशपूर्वधरादीनामपि निगोदादिदुर्गतिपातहेतुत्वात्प्रमादस्य, तेषां प्रमादमहारीणां विनाशाय वीरवद्वीरं सुभटकल्पमित्यर्थः, प्राकृतत्वादनुस्वारलोपः, पुनः कथम्भूतम् ? भद्रमन्ते यस्मात्तद् भद्रान्तं मोक्षप्रापकमित्यर्थः / अथवा हे वीर ! हे भद्रेति सम्बोधनपदद्वयं जीवस्योत्साहवृद्धिहेतुः / 'अंत'मिति जीवितान्तं यावदेवैतदध्ययनं ध्यायेत्यर्थः, पुनः किम्भूतम् ? अवन्ध्यकारणं सफलकारणम्, केषाम् ? निर्वृत्तिमोक्षस्तत्सुखानामिति /