SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ 114 ____ खण्ड-२ 'जिअ' इति पाठे तु जितप्रमादमहारियोऽसौ वीरभद्रः साधुः श्रीवीरसत्कचतुर्दशसहस्रसाधुमध्यवर्ती, तस्येदं जितं तदेतदध्ययनं ध्यायेत्यादि, एवं शास्त्रकर्तुः समासगर्भमभिधानमुक्तमस्य चाध्ययनस्य वीरभद्रसाधुकृतत्वज्ञापनेन / यस्य जिनस्य यावन्तः साधवो वैनयिक्यौत्पत्तिक्यादिबुद्धिमन्तः प्रत्येकबुद्धा अपि तावन्त एव प्रकीर्णकान्यपि तावन्ति भवन्तीति ज्ञापितं भवतीति गाथार्थः / / 63 / / / वैक्रमीये 2064 तमे वर्षे विजयकीर्तियशसूरिणा संशोधितं सम्पादितञ्चेदं / सूरिपुरन्दरश्रीसोमसुन्दरसूरिविरचितावचूरिसहितं श्रीचतुशरणप्रकीर्णकं समाप्तम् / / गुण० इति उक्तप्रकारेण हे जीव ! आत्मन् ! प्रमादा एव महान्तोऽरयः शत्रवः प्रमादमहारयः, महारित्वं चैषां तद्वशवर्तिनोऽतिशयद्धिश्रुतसम्पदुपेता अपि च दुर्गतिभाजो भवन्तीति / ततः प्रमादमहारीणां वीरवद्वीरं सुभटकल्पमित्यर्थः, प्राकृतत्वादनुस्वारलोपः / भद्रं कल्याणमन्ते यस्मात्तद्भद्रान्तं मोक्षप्रापकमित्यर्थः। एतदध्ययनं ध्याय स्मर त्रिसन्ध्यं सन्ध्यात्रयेऽवन्ध्यकारणं प्रफलकारणम्, केषाम् ? निर्वाणं निवृत्तिर्मोक्ष इत्यर्थः, तस्या निवृत्तेः सुखानि तत्सुखानि तेषामित्यर्थः / अथवा शास्त्रकर्तुर्नाम इति उल्लेख:- जितप्रमादमहारिश्चासौ वीरभद्रस्तस्येदं तदेवोत्कृष्टमध्ययनं ध्यायेत्यादि, शेषं पूर्ववत् / / 63 / / / / वैक्रमीये 2064 तमे वर्षे विजयकीर्तियशसूरिणा संशोधितं सम्पादितञ्चेदं तार्किकरत्नाचार्यश्रीगुणरत्नसूरिकृतवृत्तियुतं श्रीचतुःशरणप्रकीर्णकं समाप्तम् / /
SR No.004445
Book TitleAgam Chatusharan Prakirnakam
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2008
Total Pages342
LanguageSanskrit
ClassificationBook_Devnagari & agam_chatusharan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy