________________ 112 खण्ड-२ सोम० उक्तं चतुःशरणप्रतिपत्त्यादेर्महत्फलम्, अत एव तदवश्यं कर्त्तव्यमिति दर्शयति ता एयं कायव्वं बुहेहिं निञ्चं पि संकिलेसम्मि / ... होइ तिकालं सम्मं असंकिलेसम्मि सुगईफलं [सुकयफलं] / / 61 / / सोम० 'ता' इति तस्मात्कारणात् ‘एयं' ति एतदनन्तरोक्तं चतुःशरणादि कर्तव्यं विधेयं बुधैः अवगततत्त्वैर्नित्यमपि सततमपि / कस्मिन् ? संक्लेशो रोगाद्यापद्रूपं तस्मिन्, एतेन यथा कर्षकैः शाल्यादिबीजं शस्यनिष्पत्तये उप्तमपि पलालाद्यानुषङ्गिकं कार्यं जनयत्येवं चतुःशरणाद्यपि सततं कर्मनिर्जरायै क्रियमाणमिहलोकेऽपि रोगाद्युपसर्गोपशान्तिं तनोतीति दर्शितम् / तथा असंक्लेशो रोगाद्यभावस्तस्मिन् चतुःशरणादि भवति त्रिकालं सन्ध्यात्रयरूपकाले विधीयमानमिति शेषः / / सम्यग्मनोवाक्कायोपयुक्ततया, कथम्भूतं भवतीत्याह-'सुगईफलं ति शोभना गतिः सुगतिः स्वर्गापवर्गरूपा सैव फलं यस्य तत्सुगतिफलम्, स्वर्गमोक्षप्राप्तिफलमित्यर्थः / सम्यक्चतुःशरणादिकृतां साधूनामुत्कर्षतो मोक्षं यावत् श्राद्धानामच्युतं यावञ्च गतेः श्रीसिद्धान्ते उक्तत्वात्, 'सुकयफल मिति पाठे तु सुकृतं पुण्यं शुभानुबन्धि तत्प्राप्तिफलं भवतीत्यर्थः ___|61 / / गुण० तस्मात्कारणादेतदनन्तरोदितं चतुःशरणादिकं कर्तव्यं विधेयं बुद्धैरवगततत्त्वैनित्यमपि / यथा कर्षकैः शाल्यादिसस्यनिमित्तं बीजमुप्तं सत्पलालाद्यानुषङ्गिकं जनयन् शस्यसम्पत्तये भवत्येवं चतुःशरणाद्यपि कर्मनिर्जरायै क्रियमाणमिहलोकेऽपि रोगाद्युपसर्गोपशान्तयेऽपि स्यादिति दर्शयति / सङ्क्लेशे रोगाद्यापदि निरन्तरं कर्तव्यम्, क्रियमाणं तदुपशमाय स्यादिति / तथा त्रिकालं त्रिसन्ध्यं विधीयमानं सम्यग्मनोवाक्कायैरूपयुक्ततया असङ्क्लेशे रोगाद्यभावे सुगतिफलं स्वर्गापवर्गप्रदम् / / 61 / / / सोम० अथ योऽतीवदुर्लभां मनुष्यत्वादिसामग्री प्राप्यापि चतुःशरणादि प्रमादादिना न कृतवान् तं शोचयति चउरंगो जिणधम्मो न कओ, चउरंगसरणमवि न कयं / . चउरंगभवच्छे ओ न कओ, हा ! हारिओ जम्मो / / 62 / / सोम० चत्वारि दानशीलतपोभावनारूपाण्यङ्गानि यस्य स चतुरङ्गो दानादिचतुष्प्रकार इत्यर्थः