________________ अवचूरिवृत्तिसहितं चतुःशरणम् गुण० अर्हत्त्वं तीर्थंकरत्वं योजनप्रमाणवाण्या भविकनिकरप्रतिबोधकत्वं समवसरणादि च, केषु ? तीर्थकरेषु तदनुमन्येऽहमिति सम्बन्धः / यच्च सिद्धत्वं सदा केवलज्ञानोपयुक्तत्वं सर्वकर्मविमुक्तत्वं सिद्धेष्वनुमन्य इति / तथा आचारं ज्ञानदर्शनचारित्रतपोवीर्यरूपं पञ्चविधं आचार्येष्वनुमन्य इति / तथा उपाध्यायत्वं सिद्धान्ताध्यापकत्वमुपाध्यायेष्वनुमन्य इति / / 56 / / साहूण साहुचरियं, देसविरइं च सावगजणाणं / अणुमन्ने सव्वेसिं, सम्मत्तं सम्मदिट्ठीणं / / 57 / / सोम० तथा साधूनां सामायिकादिचारित्रवतां पुलाकबकुशादिभेदभिन्नानां जिनकल्पिक प्रतिमाधरयथालन्दिकपरिहारविशुद्धिककल्पातीतप्रत्येकबुद्धबुद्धबोधितादिभेदैरनेकविधानां सर्वकालसर्वक्षेत्रविशेषितानां साधुचरितं चरणादिक्रियाकलापं ज्ञानदर्शनचारित्रधारित्वसमभावत्वासहायसहायत्वादिरूपं चाऽनुमन्ये / 'साहुकिरियमिति पाठान्तरे तु साधुक्रियां सर्वसाधुसामाचारीरूपामित्यर्थः। तथा देशविरतिं सम्यक्त्वाणु• व्रतगुणव्रतशिक्षाव्रतैकादशप्रतिमादिरूपाम्, केषाम् ? 'श्रां पाके' श्रान्ति पचन्ति तत्त्वार्थश्रद्धानं निष्ठां नयन्तीति श्राः, 'टुवपी बीजसंताने' वपन्ति जिनभवनादिसप्तक्षेत्रेषु निजधनबीजानीति वाः, कृत् विक्षेपे' किरन्ति विक्षिपन्ति क्लिष्टकर्मरज इति काः, श्राश्च वाश्च काश्च श्रावकास्ते च ते जनाश्च श्रावकजनास्तेषां श्रावकत्वमनुमन्ये / तथा सर्वेषां सम्यक्त्वम्, सम्यक्त्वं जिनोक्ततत्त्वश्रद्धानरूपं "तमेव सञ्चं निस्संकं जं जिणेहिं पवेइअमि"ति निश्चयलक्षणमनुमन्ये। केषाम् ? सम्यग् अविपर्यस्ता दृष्टिः दर्शनं येषां ते सम्यग्दृष्टयः, तेषां सम्यग्दृष्टीनाम विरतानामपि सुरैरप्यचाल्यसम्यक्त्वानां श्रेणिकादीनामिवेत्यर्थः / / 57 / / गुण साधुनां प्रमत्तपुलाकादिबुद्धबोधितभेदानां साधुचरितं चरणकरणादि, देशविरतिं च श्रावकजनानां श्रावकत्वमनुमन्ये इत्यर्थः, सर्वेषां सम्यक्त्वं सम्यग्दृष्टीनामविरतानां श्रेणिकादीनामिव / / 57 / /