________________ 110 खण्ड-२ सोम० अथ सर्वानुमोदनार्हसङ्ग्रहमाह अहवा सव्वं चिय वीयरायवयणाणुसारि जं सुकडं / ____ कालत्तए वि तिविहं अणुमोएमो तयं सव्वं / / 58 / / सोम० अथवेति सामान्यरूपप्रकारदर्शने 'चिअ' एवार्थे, ततः सर्वमेव वीतरागवचनानुसारि जिनमतानुयायि यत् सुकृतं जिनभवनबिम्बकारणतत्प्रतिष्ठासिद्धान्तपुस्तकलेखनतीर्थयात्राश्रीसङ्घवात्सल्यजिनशासनप्रभावनाज्ञानाद्युपष्टम्भधर्मसान्निध्यक्षमामार्दवसंवेगादिरूपं मिथ्यादृक्सम्बन्ध्यपि मार्गानुयायि कृत्यं कालत्रयेऽपि त्रिविधं मनोवाक्कायैः कृतं कारितमनुमतं च यदभूत् भवति भविष्यति चेति / 'तकत्' इति तत्रशब्दात् 'त्यादिसर्वादिः स्वरेष्वन्त्यादिति सूत्रेण स्वार्थेऽकप्रत्यये रूपम्, तदित्यर्थः, तत् सर्व निरवशेषमनुमोदयामोऽनुमन्यामहे, हर्षगोचरतां प्रापयाम * इत्यर्थः। बहुवचनं चात्र पूर्वोक्तचतुःशरणादिप्रतिपत्त्या उपार्जितपुण्यसम्भारत्वेन स्वात्मनि बहुमान सूचनार्थम् / / 58 / / गुण० अथवा 'चिय' एवार्थे ततः सर्वमेव वीतरागंवचनानुसारि जिनमतानुयायि यत्सुकृतं जिनशासनोक्तं किञ्चित् दृश्यते कालत्रयेऽपि त्रिविधं मनोवाक्कायैः कृतं कारितमनुमोदितमनुमोदयामोऽनुमन्यामहे तकं सर्वम् / / 58 / / सोम० तदेवमुक्तः सुकृतानुमोदनारूपस्तृतीयोऽधिकारः / अथ चतुःशरणादिकरणे यत्फलं स्यात्तद्गाथाद्वयेनाहगुण० चतुःशरणादीन् कुर्वतो यद्भवति तद्गाथाद्वयेनाह सुहपरिणामो निश्चं, चउसरणगमाइ आयरं जीवो / कुसलपयडीओ बंधइ, बद्धाउ सुहाणुबंधाओ / / 59 / / सोम० शुभपरिणामः प्रशस्तमनोऽध्यवसायः सन् नित्यं सदैव चतुःशरणगमनादि चतुःशरण गमनदुष्कृतगर्हासुकृतानुमोदनान्याचरन् कुर्वन् साधुप्रभृतिको जीवः कुशलं पुण्यं तत्प्रकृतीः “साउञ्चगोअमणुदुगे"त्यादिगाथोक्ताः द्विचत्वारिंशत्सङ्ख्याः बध्नाति, शुभाध्यवसायबध्यमानत्वात्तासाम्, तथा ताश्च प्रकृतीर्बद्धाः सतीः शुभाध्यवसायवशाच्छु भोऽनुबन्ध उत्तरकालः फलविपाकरूपो यासां ताः शुमानुबन्धा एवंविधाः करोतीत्यर्थः / / 59 / /