________________ 108 खण्ड-२ सोम० उक्तो दुष्कृतगर्हारूपो द्वितीयोऽधिकारः / अधुना सुकृतानुमोदनारूपं तृतीया धिकारमाहगुण० तृतीयाधिकारमाह अह सो दुक्कडगरिहादलिउक्कडदुक्कडो फुडं भणइ / सुकडाणुरायसमुइनपुनपुलयंकुरकरालो / / 55 / / सोम० अथानन्तरं स साध्वादिको जीवः, कथम्भूतः ? दुष्कृतगर्ह या दुश्चरित्रनिन्दनेन दलितानि चूर्णीकृतानि उत्कटानि प्रबलानि दुष्कृतानि पापानि येन स तथा, दुष्कृतगर्हया प्रतिहतमहापातकनिकर इत्यर्थः / एवंविधः सन् स्फुटं यथा स्यादेवं भणति / पुनः स किम्भूतः ? सुकृतानुरागेण सुचरितबहुमानेन समुदीर्णाः सञ्जाताः पुण्यबन्धहेतुत्वात् पुण्याः पवित्रा ये पुलकाङ्कुरा रोमोद्गमविशेषास्तैः करालो व्याप्तः कर्मवैरिणं प्रति भीषणो वा / / 55 / / / गुण० अथानन्तरं स साधुप्रभृतिको जीवः / कथम्भूतो ? दुष्कृतगर्हया दुश्चरितनिन्दनेन दलितानि चूर्णीकृतानि उत्कटानि दुष्कृतानि येन स दलितोत्कटदुष्कृतः प्रतिहतमहापातकनिकर इत्यर्थः / तथा स्फुटं प्रकटं भणति / पुनः किंगुण ? इत्याहसुकृतानुरागेण सुचरितबहुमानेन समुत्पन्नाः सञ्जाताः पुण्याः पवित्रा ये पुलकाङ्कुरा रोमोद्गमविशेषास्तैः करालो भीषणः कर्मवैरिणं प्रतीति शेषः / / 5 / / सोम० यद्भणति तद्गाथाद्वयेनाह अरिहत्तं अरिहंतेसु, जं च सिद्धत्तणं च सिद्धेसु / आयारं आयरिएसु, उज्झायत्तं उवज्झाएसु / / 56 / / सोम० अर्हत्त्वं तीर्थकरत्वं प्रतिदिनं द्विर्धर्मदेशनाकरणभव्यनिकरप्रतिबोधनतीर्थप्रवर्त्तनादि रूपम्, केषु ? अर्हत्सु तीर्थकरेषु तदनुमन्येऽहमिति सम्बन्धः। यञ्च सिद्धत्वं सदा केवलज्ञानोपयुक्तत्वसर्वकर्मविमुक्तत्वनिरूपमसुखभोक्तृत्वादिरूपं सिद्धेष्वनुमन्ये / तथाऽऽचारं ज्ञानाचारादिरूपं पञ्चविधमाचार्येष्वनुमन्ये / तथा * उपाध्यायत्वं सिद्धान्ताध्यापकत्वरूपमुपाध्यायेष्वनुमन्ये इति / / 56 / /