________________ अवचूरिवृत्तिसहितं चतुःशरणम् 107 सोम० यञ्चोक्तं “अन्नेसु य पावेसु"त्ति तदेव व्यक्तीकरोतिगुण० यञ्चोक्तं “अन्नेसु य पावेसु" तदेव व्यक्तीकुर्वन्नाह __ अन्नेसु य जीवेसु मित्ती-करुणाइ गोयरेसु कयं / . परियावणाइदुक्खं इण्हिं गरिहामि तं पावं / / 53 / / सोम० अन्येष्वपि जीवेषु तीर्थकरादिव्यतिरिक्तेषु एकेन्द्रियादिसर्वभेदभिन्नेषु मैत्रीकारुण्य माध्यस्थ्यानि विधेयतया गोचरो विषयो येषां ते तथा / तेषु कृतं निष्पादितं 'परिआवणाइ'त्ति परितापनादिदुःखं परितापनारूपमध्यपदग्रहणात्तुलादण्डन्यायेनाभिहतादिभिर्दशभिः पदैस्तेषु जीवेषु यत्किमपि दुःखं कष्टं कृतमिदानीं तदपि पापं गर्हामि जुगुप्साम्यालोचयामीतियावत् / / 53 / / गुण० अन्येष्वपि जीवेषु तीर्थकरादिव्यतिरिक्तेषु पृथिव्यादिलोकान्तपर्यन्तेषु / कथम्भूतेषु मैत्रीकारुण्यादिगोचरेषु / कृतं परितापनादिदुःखं परितापनादिमध्यपदग्रहणात् तुलादण्डन्यायेनाभिहतादिभिर्दशभिः पदैस्तेषु जीवेषु यत्किमपि दुःखं कष्टं कृतमिदानी तदपि पापं गर्हामि / / 53 / / सोम० अथोपसंहारमाह जं मण-वय-काएहिं कय-कारिय-अणुमईहिं आयरियं / धम्मविरुद्धमसुद्धं सव्वं गरिहामि तं पावं / / 54 / / सोम० यत्किञ्चित् पापमकृत्यं मनोवाक्कायै रागद्वेषमोहाज्ञानवशात् कृतकारितानुमति भिराचरितं विहितं धर्मस्य जिनधर्मस्य विरुद्ध प्रतिकूलमत एवाशुद्ध सदोषं सर्व ... समस्तमपि तत्पापं गम्यिपुनःकरणेनाङ्गीकरोमि गुरुसन्निधावालोचयामि / / 54 / / गुण० यत्पापमकृत्यं मनोवाक्कायैः रागद्वेषमोहाज्ञानहेतुभूतैः कृतकारितानुमतिभिराचरितं विहितं धर्मस्य विरुद्धं प्रतिकूलं सूत्रनिषिद्धमत एवाशुद्धं सदोषं सर्व समस्तमपि तत्पापं गर्हामि गुरुसन्निधावालोचयामीति तात्पर्यार्थः / शेषं प्राग्वत् / / 54 / /