________________ 106 ' खण्ड-२ भावचक्षुषा जीवेनेति शेषः, अर्हदादिषु अर्हत्सिद्धाचार्योपाध्यायादिषु पूजाबहुमानार्हेषु अवण्णवयणं जं ति अवर्णवादवचनमसद्दोषकथनमवज्ञावचनं वा हीलारूपं यदज्ञानेन विवेकशून्येनोक्तमिति शेषः, तथा विरचितं कृतं कारितमनुमतं चातीतानागतवर्तमानकाले, यञ्चान्यदपि जिनधर्मप्रत्यनीकत्ववितथप्ररूपणापरदेवधर्मस्थापनादिरूपमिदानीमवगत परमार्थस्तत्पापं गर्हामि निन्दामि गुरुसमक्षमालोचयामीत्यर्थः / / 51 / / .. गुण मिथ्यात्वमेव तमोऽन्धकारं तद्रूपं पातकं वा तेन मिथ्यात्वतमोऽन्धेन मिथ्या शास्त्रोपहतभावचक्षुषा सता जीवेनार्हदादिषु अर्हत्सिद्धाचार्योपाध्यायादिषु अवर्णवादवचनमसद्दोषकथनं यदज्ञानेन जिनशासनबाह्येनोक्तमिति शेषः / तथान्यदपि मिथ्यात्वमोहितमतिना विरचितं कृतं कारितमनुमतं वा अतीतानागतवर्तमानकाले, इदानीमवगतपरमार्थः सन् तत्पापं गर्हामि निन्दामि गुरुसमीपे आलोचयामि, गुरुभिर्दत्तं तपःकर्म सम्यक् प्रतिपद्येऽहम् / / 51 / / सुय-धम्म-संघ-साहुसु पावं पडिणीययाए जं रइयं / / अनेसु य पावेसुं इण्डिं गरिहामि तं पावं / / 52 / / सोम० श्रुतं च धर्मश्च सयश्च साधवश्च श्रुतधर्मसङ्घसाधवः तेषु पापमाशातनारूपं प्रत्यनीकतया विद्विष्टभावेन यद्रचितं, तत्र श्रुतस्य द्वादशाङ्गरूपस्य तदध्येत्रध्यापकानां वा उपरि यदरुच्यबहुमानादिचिन्तनम् “अज्ञानमेव शोभन"मिति भणतः पूर्वभवे माषतुषस्येव / धर्मप्रत्यनीकता “कविला इत्थंपि इहयंपी"ति भणतो मरीचेरिव / सङ्घप्रत्यनीकता सम्मेतशैलयात्रागच्छत्श्रीसङ्घविलोडकानां [विलोपकानां] सगरसुतजीवपूर्वभवचौराणामिव / साधुप्रत्यनीकता गजसुकुमालं प्रति सोमिलद्विजस्येव / तथा सर्वेषां श्रुतधर्मार्हदाचार्योपाध्यायसाधूनामुपरि प्रत्यनीकता नमुचिदत्तगोशालकादीनामिव ज्ञेया / तथाऽन्येष्वपि पापेष्वष्टादशसु प्राणातिपातादिषु यत् किमपि पापं जीवव्यपरोपणादिकं कृतं तदप्यधुना गर्हामीत्यर्थः / / 52 / / गुण० श्रुतं च धर्मश्च सङ्घश्च साधवश्च श्रुतधर्मसङ्घसाधवस्तेषु पापं प्रत्यनीकतया विद्विष्टभावेन यद्रचितमन्येष्वपि पापेष्वष्टादशसु प्राणातिपातादिषु विषयभूतेषु यत्किमपि पापं जीवव्यपरोपणादिकं कृतं तदप्यधुना गर्हामि / / 52 / /