________________ अवचूरिवृत्तिसहितं चतुःशरणम् 105 गुण० चतुःशरणगमनेन चतुःशरणाङ्गीकरणेन सञ्चितं राशीकृतं यत्सुचरितं पुण्यं तेन योऽसौ 'रोमाञ्चो रोमोल्लासस्तेनाञ्चितं भूषितं शरीरं यस्य स तथा, शरणगमनार्जितस्य सुकृतस्य वशात्कण्टकितगात्र इत्यर्थः। कृतानि विहितानि यानि दुष्कृतानि अशुभाचारास्तेषां गर्हा गुरुसमक्षं “हा दुक्कयमि"त्यादि निन्दा, तया कृतदुष्कृतगर्हया योऽसावशुभकर्मक्षयः पापकर्मापगमस्तत्र काङ्किर आकाङ्क्षावान् भणति दुष्कृतगर्हातो यः पापापगमो भवति तमात्मनः समभिलषन्नेवं वक्ष्यमाणं वदतीत्यर्थः / / 49 / / सोम० यञ्च भणति तदाहगुण० यञ्च भणति तदाह इहभवियमनभवियं मिच्छत्तपवत्तणं जमहिगरणं / जिणपवयणपडिकुटुं दुटुं गरिहामि तं पावं / / 50 / / सोम० इहास्मिन् भवे यत्कृतं तदिहभविकम्, अन्यस्मिन् भवे भवमन्यभविकमतीतभविष्य द्भवसम्भवमित्यर्थः, मिथ्यात्वप्रवर्त्तनं कुतीर्थिकदानमानसन्मानतद्देवार्चनतचैत्यकारापणाद्यधिकरणमन्यदपि चाधिकरणं भवनारामतटाकादिकारणधनुःखड्गादिशस्त्रयन्त्रगन्त्रीहलोदूखलशृङ्खलादिविधापनदानादिरूपं यत्कृतमिति शेषः, तथाऽन्यञ्च जिनप्रवचने यत्प्रतिक्रुष्टं प्रतिषिद्धं दुष्टं तत्पापं गर्हामि जुगुप्सामीत्यर्थः / / 50 / / गुण० इहास्मिन् भवे यत्कृतं तदिहमविकमन्यस्मिन् भवे भवमन्यभविकमतीतभविष्यद्भव सम्भवमित्यर्थः, मिथ्यात्वप्रवर्तनं कुतीर्थिकदानसन्मानतद्देवार्चनतत्वेत्यकारापणाद्यधिकरणमन्यदपि च पुरप्राकारादिखड्गादियन्त्रगन्त्रीहलोदूखलादि तथाऽन्यदपि यद् जिनप्रवचने प्रतिक्रुष्टं निराकृतं भवतीति हेतुत्वाद् दुष्टं तत्पापं गर्हामि .. जुगुप्सामि / / 50 / / सोम० उक्ता सामान्येन दुष्कृतगर्हा, सम्प्रति विशेषेण तामाह मिच्छत्ततमंधेणं अरिहंताइसु अवनवयणं जं / अन्नाणेण विरइयं इण्हिं गरिहामि तं पावं / / 51 / / सोम० मिथ्यात्वमेव तमोऽन्धकारः तेनान्धस्तेन मिथ्यात्वतमोऽन्धेन, मिथ्याशास्त्रोपहत