________________ 104 खण्ड-२ यथावसरमलङ्करणादलङ्कारः सुन्दररचनालङ्कारः, गौरवहैतुत्वात् गौरवम्, महान? माहात्म्यविशेषो यस्य स महाघः, ततो द्वन्द्वः, श्रुतधर्मपक्षे तु "सुयधम्मो सज्झाओ" इति वचनात्, श्रुतं द्वादशाङ्गं तत्र भास्वरज्ञानिभिः केवलिभिरुक्तत्वात् भास्वरम्, शोभना वर्णा अक्षराणि यत्र तत्सुवर्णम्, ततः सुवर्णानामक्षराणां या सुन्दरा रचना पदपङ्क्तिविरचनम्, तस्या द्वात्रिंशत्सूत्रदोषपरिहारेणाष्टगुणालङ्करणेन चालङ्कारो विभूषणम्, सुवर्णसुन्दररचनालङ्कारस्तस्माञ्च गौरवो गुरुत्वम्, तथा एकैकस्यापि सूत्रस्यानन्तार्थत्वात्, यदाह-"सव्वनईण..." ततो महानर्घ आधिक्यं पूजातिशयो वा यस्य / अतश्चोपमीयते निधिमिव महानिधानमिवेत्यर्थः, किंविशिष्टम् .? दुष्टा गतिर्दुर्गतिः कुदेवत्वकुमानुषत्वतिर्यग्नरकलक्षणा, तस्या दुर्गते वो दौर्गत्यम्, श्रुतधर्मपक्षे तु अज्ञानत्वम्, तद् हरतीति, तत्र निधीयन्ते पोष्यन्तेऽर्था येषु इति निधयः, भास्वरं दीप्तिमत्सुवर्णं कनकं सुन्दराणि रुचिराणि रत्नानि पद्मरागादीनि अलङ्कारा हाराद्याभरणविशेषास्तैौरवः सम्पूर्णता तेन च महा? बहुमूल्यः, अत एव दुर्गतस्य दरिद्रस्य भावो . दौर्गत्यं दारिद्र्यं तद्धरतीति दौर्गत्यहरः दारिद्र्यापहार-कृदित्यर्थः, एवंविधो यो निधिस्तत्कल्पं जिनोपदिष्टं धर्म वन्दे / व्यर्थेयं गाथा / / 48 / / सोम० उक्तश्चतुःशरणरूपः प्रथमोऽधिकारः / अथ दुष्कृतगर्हारूपं द्वितीयमधिकारमाहगुण० उक्तं चतुर्थं शरणम्, तद्भणनेन चाभिहितोऽस्याध्ययनस्य प्रथमोऽर्थाधिकारः / द्वितीयार्थाधिकारमाह चउसरणगमणसंचियसुचरियरोमंचअंचियसरीरो / कयदुक्कडगरिहाऽसुहकम्मक्खयकंखिरो भणइ / / 49 / / सोम० चतुःशरणगमनेन चतुःशरणाङ्गीकारेण सञ्चितं राशीकृतं यत्सुचरितं पुण्यं तेन योऽसौ रोमाञ्चो रोमोल्लासस्तेनाञ्चितं भूषितं शरीरं यस्य स तथा, चतुःशरणगमनार्जितसुकृतवशात्कण्टकितगात्र इत्यर्थः / तथा कृतानीहभवेऽन्यभवे च विहितानि यानि दुष्कृतानि पापकृत्यानि तेषां गर्हा गुरुसमक्षं “हा दुहु कय"मित्यादि निन्दा, तया योऽसावशुभकर्मक्षयः पापकर्मापगमस्तत्र काक्षिर आकाङ्क्षावान् भणति, दुष्कृतगर्हातो यः पापापगमो भवति तमात्मनः समभिलषन्नेवं वक्ष्यमाणं भणति वदतीत्यर्थः / / 49 / /