________________ अवचूरिवृत्तिसहितं चतुःशरणम् 103 भासुरसुवनसुंदररयणालंकारगारवमहग्घं / निहिमिव दोगञ्चहरं धम्मं जिणदेसियं वंदे / / 48 / / सोम० देवादिभास्वरगतिहेतुत्वाद् भास्वरः शोभनो वर्णः श्लाघा गुणोत्कीर्तनरूपा यस्मात्स सुवर्णः, चारित्रवतामिन्द्रादिभिरपि श्लाघनीयत्वात्, तथा सुन्दरा मनोज्ञा या क्रियाकलापविषया इच्छामिच्छेत्यादिदशविधसामाचार्यादिरूपा या रचना विविधकल्पना सैव तया वाऽलङ्कारः शोभाविशेषो यस्य स सुन्दररचनालङ्कारः, तथा गौरवं महत्त्वं तद्धेतुत्वाद्धर्मोऽपि गौरवं तथा महान| माहात्म्यविशेषो यस्य स महाघः, चारित्रवतामामोषध्याद्यनेकमाहात्म्यविशेषसम्भवात्, ततः पञ्चानामपि विशेषणानां कर्मधारयः / अथवा शोभनो वर्णः श्लाघा तेन सुन्दरा या सामाचार्यादिरचना सैवालङ्कारो यस्येत्येकमेव कार्यम्, चारित्रपक्षेऽयं पूर्वोक्तोऽर्थः। श्रुतधर्मपक्षे तु भास्वरज्ञानिभिः केवलिभिरुक्तत्वाद् भास्वरः शोभना वर्णा अक्षराणि तेषां या सुन्दरा रचना पदपङ्क्त्या विरचना तस्या योऽलङ्कारो द्वात्रिंशत्सूत्रदोषपरिहारेणाष्टगुणधारणेन च शोभाविशेषस्तस्माद् यद्गौरवं गुरुत्वमनन्तार्थत्वादिरूपं तेन महानर्घ आधिक्यं पूजातिशयो वा यस्य स तथा, ततो विशेषणद्वयकर्मधारयः, अथवा भास्वरेति वर्णविशेषणं कार्यम्, यद्वा भास्वरसुवर्णसुन्दररचनालङ्कारेण गौरवं गुरुत्वं यस्य स तथा, महार्घमिति पृथक्कृत्वा समस्यते / निधिपक्षे पुनर्भास्वरं दीप्तिमत् सुवर्ण कनकं सुन्दराणि यानि कनकानि रत्नानि अलङ्कारा हाराद्याभरणविशेषास्तैौरवं सम्पूर्णता. तेन महा? बहुमूल्यः / 'दोगच्च ति चारित्रधर्मपक्षे दुष्टा गतिर्दुर्गतिः कुदेवत्वकुमानुषत्वतिर्यग्नरकलक्षणा तस्या दुर्गर्भावो दौर्गत्यम्, श्रुतधर्मपक्षे तु “गत्यर्था ज्ञानार्था धातवो"ऽतो गतिर्ज्ञानं दुष्टा गतिः दुर्गतिरज्ञानमित्यर्थः तद्धरतीति दौर्गत्यहरम्, निधानपक्षे तु दुर्गतस्य दरिद्रस्य भावो दौर्गत्यं दारिद्र्यं तद्धरतीति दौर्गत्यहरं दारिद्र्यापहारकृदित्यर्थः। एवंविधं निधानोपमितं धर्म श्रीजिनः श्रीसर्वज्ञैर्देशितमुपदिष्टं जिनोपदिष्टं वन्दे नमस्कुर्वेऽहमित्यर्थः / / 48 / / गुण० भास्वरगतिहेतुत्वाञ्चारित्रधर्मस्य मास्वरः शोभनो वर्णः श्लाघा "देवा वि तं नमसंतीत्यादि" गुणोत्कीर्तनरूपो यस्य यस्मात्स सुवर्णः, तथा सुन्दरा मनोज्ञा ___इतिकर्तव्यक्रियाकलापैश्चित्रा इच्छामिच्छादिदशभेदरूपा या रचना परिकल्पना तस्या