________________ 102 खण्ड-२ गुण प्रशमितः "सल्लं" इत्यादि तद्विपाकवर्णनेनोपशमं नीतः कामस्य प्रकृष्टो मोह उन्मादो येन स तथा निवारितकामोद्रेक इत्यर्थस्तम् / दृष्टाश्च अदृष्टाश्च दृष्टादृष्टा जीवाः, तत्र दृष्टा बादरैकेन्द्रियद्वीन्द्रियादयः दृष्टिविषयत्वात्तेषामदृष्टाः सूक्ष्मपनकसूक्ष्मैकेन्द्रियाः सर्वलोकवर्तिनोऽतिशयज्ञानिगोचरास्तेषु दृष्टादृष्टेषु जीवेषु न कलितो न कृतो विरोधो विपरीतप्ररूपणा येन स तथा तम्, केवलिप्रज्ञप्तत्वाद् यथावस्थितस्वरूपावेदकमित्यर्थः / शिवसुखमेव फलं तद्ददातीति शिवसुखफलदस्तं शिवसुखफलदम् / अत एव न मोघोऽमोघोऽवन्ध्यः सार्थक इत्यर्थस्तमेवंप्रकारं धर्म शरणमहं प्रपन्नः / / 46 / / नरयगइगमणरोहं गुणसंदोहं पवाइनिक्खोहं / निहणियवम्महजोहं धम्म सरणं पवन्नो हं / / 47 / / सोम० पापकारिणो नरान् कायन्त्याह्वयन्तीति नरका रत्नप्रभादिषु सीमन्तकाद्यास्त एव गम्यन्त इति गतिस्तत्र यद्गमनं तद् रुणद्धि निवारयतीति नरकगतिगमनरोधस्तम्, तथा / गुणानां क्षान्त्यादीनां सन्दोहः समुदायो यत्र स लथा तम्, तथा प्रकृष्टा वादिनः प्रवादिनः, निर्शब्दो निषेधार्थः, तैः प्रवादिभिः निर् न क्षोभ्यते इति,प्रवादिनिक्षोभ्यस्तम, अथवा प्रवादिभ्यो निर्गतः क्षोभः कम्पनं यस्य स तथा, यद्वा प्रवादिनां निर् नितरां क्षोभो यस्मात्स तथा तम्, सुयुक्तियुक्तत्वेन श्रीसर्वज्ञोक्तत्वेन च वादिभिः क्षोभयितुमशक्य इत्यर्थः। 'निहणिय'त्ति निहतो नाशं नीतो मन्मथयोधः कामसुभटो येन स तथा, नवगुप्तिरचनारुचिरब्रह्मकवचाञ्चितत्वात् धर्मस्य, तं धर्म शरणं प्रपन्नोऽहमिति / / 47 / / गुण नरकगतिगमनरोधम्, नरका रत्नप्रभाद्यास्तत्र गमनं तं रुणद्धि निवारयतीति / गुणानां क्षान्त्यादीनां च सन्दोहः समुदायो यत्र स तथा तम् / प्रकर्षवन्तो वादिनः प्रवादिनस्त्रिषष्ट्याधिकत्रिशतानां सङ्ख्योपेताः, निःशब्दस्य निषेधार्थत्वात् तैः प्रवादिभिर्न क्षोभ्यत इति प्रवादिनिक्षोभ्यस्तं प्रवादिनिःक्षोम्यम् / नवगुप्तिरचनारुचिरकवचकवचितत्वेन निर्जितः प्रतिहतो नाशं नीतो मन्मथयोधः कामसुभटो येन स तथा तं धर्म शरणं प्रपद्येऽहम् / / 47 / / सोम० अथ निधानोपमया धर्मस्य नमस्कारमाहगुण० कृतधर्मशरणः पुनस्तस्यैव चारित्रश्रुतरूपस्य निध्युपमया नमस्कारमाह