________________ अवचूरिवृत्तिसहितं चतुःशरणम् 101 यस्मात्स तथा / तथा सद्वर्णगन्धरसोपेतं वर्णबलसौभाग्यपुष्टिजननं सर्वरोगनाशनं वस्तु अमृतमुच्यते तदिव सकललोकस्यानन्दतुष्टिपुष्टिजनकत्वाद् / बहुमतः सर्वस्याप्यतिशयेनाभीष्ट इत्यर्थः, तं प्रक्रमायातं जिनधर्मम् / न केवलं जिनधर्मम्, जिनमतं च जिनप्रवचनं द्वादशाङ्गरूपं पूर्वोक्तगुणसुन्दरं शरणत्वेनाहं प्रपन्न आश्रित इत्यर्थः / / 45 / / गुण० कालत्रयेऽतीतानागतवर्तमानरूपे न मृतो न विनष्टस्तं न मृतं विदेहेषु नैरन्तर्येण तत्सद्भावात् कालत्रयेऽपि धर्मो विद्यत एवेत्यर्थः / जन्म च जरा च मरणं च व्याधयश्च जन्मजरामरणव्याधयस्तेषां जन्मजरामरणव्याधीनां शतानि तानि सुष्टु अतिशयेन मृतानि स्थितानि विनष्टानि यस्मात् स तथा तमथवा जन्मजरामरणव्याधिशतानां शमकः सिद्धिपदप्रदानेन तन्निवारकस्तम् 'अमयं वत्ति चारुवर्णगन्धरसोपेतं वर्णबलसौभाग्यपुष्टिजननं सर्वरोगशमनमनेकगुणसम्पन्नममृतं तदिव सकललोकस्यानन्दतुष्टि पुष्टिजनकत्वात्, बहुमतः सर्वस्याप्यतिशयेनाभीष्ट इत्यर्थः / तं किं बहुमतं इति चेत् - प्रक्रमायातं जिनधर्ममेक, न केवलं जिनधर्मं जिनमतं च प्रवचनं च द्वादशाङ्गमित्यर्थः तदप्येवंगुणमेव, शेषं प्राग्वत् / / 45 / / पसमियकामपमोहं दिट्ठाऽदिढेसु न कलियविरोहं / . सिवसुहफलयममोहं धम्मं सरणं पवनो हं / / 46 / / सोम० प्रकर्षण कटुविपाकतादर्शनेनोपशमं नीतः / कामस्य प्रकृष्टो मोह उन्मादो मोहो वा येन स तथा, निवारितकामोद्रेक इत्यर्थः, जिनधर्मभावितमतेः कामनिवृत्तेः सद्भावात्। तथा दृष्टादृष्टविषया ये बादरैकेन्द्रियद्वीन्द्रियादयो जीवाः पुद्गलस्कन्धादयोऽजीवाश्च, तथाऽदृष्टाः सर्वलोकवतिसूक्ष्मैकेन्द्रियादयो जीवा धर्माधर्मास्तिकायादयोऽजीवाश्च / स्वर्गनरकादयो वा येऽतिशयज्ञानिगोचरास्तेषु दृष्टादृष्टेषु पदार्थेषु न कलितो न प्राप्तो विरोधो विपरीतप्ररूपणारूपो येन स तथा तम्, केवलिप्रज्ञप्तत्वात् यथावस्थितस्वरूपावेदकमित्यर्थः। तथा शिवसुखमेव फलं शिवसुखफलं तद्ददातीति शिवसुखफलदस्तम्, अत एव न मोघोऽमोघोऽवन्ध्यः सफल इत्यर्थः / तमेवंप्रकारं धर्म शरणं प्रपन्नोऽहमिति / / 46 / /