________________ 100 खण्ड-२ सोम० निर्दलितानि विदारितानि तत्कर्तृजनेभ्यः कलुषाणि मलिनानि कर्माणि येन धर्मेण स तथा, निर्धूतसर्वपाप इत्यर्थः। यत एवंविधोऽत एव कृतं शुभं जन्म कर्म वा सेवकजनेभ्यो गणधरतीर्थकरत्वादिप्राप्तिलक्षणं येन स कृतशुभजन्मा कृतशुभकर्मा वा। यत एवंविधोऽत एव खलीकृतः शत्रुवनिर्घाटितो निस्सारितोऽधर्मो कुधो वा सम्यक्त्ववासितान्तःकरणेभ्यो येन स तथा / तथाऽयं जिनधर्मः प्रमुखे आदाविहलोकेऽपि रम्यो धम्मिलादीनामिव परिणामे परिपाकप्राप्तौ भवान्तरेऽपि दामनकादीनामिव रम्यो मनोज्ञः, मिथ्यादृष्टिधर्मस्तु नैवंविधः, तस्यारम्भेऽप्यादावपि पञ्चाग्नितपःप्रभृत्यादेर्महाकष्टहेतुत्वेन परिणामे परलोके च मिथ्यात्वरूपत्वादुर्गतिमूलत्वेन चासुन्दरत्वात् / विषयसुखस्य त्वादौ सुन्दरत्वेऽपि परिणाम शनैः शनैरिहलोके परलोकेपि च कटुविपाकत्वाच्च, जिनधर्मस्त्वादौ परिणामेऽपि च रम्य एव, स एवंविधो धर्मो मम शरणं भवतु / / 44 / / गुण निर्दलितानि विदारितानि तत्कर्तृजनेभ्यः कलुषाणि मलिनानि कर्माणि येन धर्मेण स तथा निधीतसर्वपाप इत्यर्थः। यत एव निर्दलिताशुभकर्मा अत एव कृतं शुभं कर्म जन्मा वा सेवकजनेभ्यो गणधरतीर्थकरत्वादिपदवीप्राप्तिलक्षणं येन स कृतशुभकर्मा जन्म वा / अत एव खलीकृतः शत्रुवन्निर्घाटितो निःसारितः कुधर्मो मिथ्याधर्मः सम्यक्त्वतत्त्ववासितेभ्यो येन स तथा / मिथ्यादृष्टिधर्मस्यारम्भेऽप्यादावपि पञ्चाग्नितपःप्रभृत्यादेर्महाकष्टहेतुत्वेनासुन्दरत्वात् परिणामे च मिथ्यात्वरूपत्वेन दुर्गतिमूलत्वाद्, अयं तु जिनधर्मः प्रमुखे आदाविहलोकेऽपि धम्मिल्लादीनामिव परिणामे परिपाकप्राप्तौ भवान्तरे दामनकादीनामिव रम्यो मनोज्ञः। स एवंविधो धर्मो मम शरणं भवतु / / 44 / / कालत्तए वि न मयं जम्मण-जर-मरण-वाहिसयसमयं / अमयं व बहुमयं जिणमयं च सरणं पवनो हं / / 45 / / सोम० कालत्रयेऽप्यतीतानागतवर्तमानरूपे न मृतो न विनष्टस्तं न मृतं भरतैरावतेषु व्यवच्छेदसद्भावेऽपि महाविदेहेषु कालत्रयेऽपि धर्मस्य नैरन्तर्येण सद्भावात् / तथा जन्म च जरा च मरणं च व्याधयश्च जन्मजरामरणव्याधयस्तेषां शतानि शमयतीति जन्मजरामरणव्याधिशतशमकः, सिद्धिपदप्रदानेन तन्निवारक इत्यर्थः, तम् / 'सुमय' मिति पाठे तु जन्मजरामरणव्याधिशतानि सुष्ठु अतिशयेन मृतानि विनष्टानि स्थितानि