________________ अवचूरिवृत्तिसहितं चतुःशरणम् तेषामप्यागमे केवलक्रियादिबलेनाऽऽनवमग्रैवेयकं गमनश्रवणात् / मोक्षसुखं पुनर्येन धर्मेण प्राप्तेनैव प्राप्यते, नान्यथा, मरुदेवीप्रभृतयोऽपि भावतश्चारित्रपरिणामं प्राप्यैव मोक्षं जग्मुरिति, नवरि पुनः स धर्मो मे मम शरणं भवतु / अथ व्याख्यान्तरं-पात्रेण ज्ञातिकुलसौभाग्यादिगुणयुक्तेन तथा अपात्रेणापि गुणवियुक्तेन दारिद्र्याधुपहतेनापि प्राप्तानि लब्धानि येन कारणेन नरसुरसुखानि मनुजदेवसमृद्धयः, तत्र पात्रेण ऋजुत्वादिगुणवता वरुणसारथिमित्रेणेव नरसुखं विदेहेषु सुकुलोत्पत्त्यादिकं यथा प्राप्तमपात्रेण दौःस्थ्याक्रान्तेन कौशाम्ब्यामार्य-सुहस्तिप्रव्राजितसम्प्रतिराजजीवद्रमकेणेव, पात्रेण सुरसुखं सर्वार्थसिद्धिसम्भवं शालिभद्रेणेवापात्रेण सुरसुखं वसुदेवपूर्वभवे नन्दिषेणेनेव प्राप्तम्, च एवकारार्थो भिन्नक्रमश्च पात्रेणेत्यत्र योज्यते, ततोऽयमर्थः / नवरं केवलं मोक्षसुखं पुनः पात्रेणैव चारित्रधर्माधारभूततथाभव्यत्वगुणलक्षणेनैव प्राप्यते, नान्यथेति, यस्य धर्मस्य प्राप्त्यैवेति शेषः, स धर्मो मम शरणं भवतु / / 43 / / गुण० पात्रेण ज्ञातिकुलरूपसौभाग्यादिगुणयुक्तेन, न केवलं पात्रेण, अपात्रेणापि गुणवियुक्तेन दारिद्र्याधुपहतेन प्राप्तानि लब्धानि येन कारणेन नरसुरसुखानि मनुजदेवसमृद्धयः, तत्र पात्रेण ऋजुत्वादिगुणवता वरुणसारथिमित्रेणेव नरसुखं विदेहेषु सुकुलोत्पत्त्यादिकं यथा प्राप्तम्, अपात्रेणापि दौःस्थ्याक्रान्तेन कौशाम्ब्यामार्यसुहस्तिसूरिप्रताजितसम्प्रतिराजजीवद्रमकेणेव, पात्रेण सुरसुखं सर्वार्थसिद्धिसम्भवं शालिभद्रेणेव च, अपात्रेण सुरसुखं वसुदेवपूर्वभवे नन्दिषेणेनेव प्राप / अपेः पुनरर्थत्वान्मोक्षसुखं पुनः, चस्य भिन्नक्रमत्वात् पात्रेणैव, चारित्रधर्माधारभूतभव्यत्वगुणलक्षणेनेत्यर्थः, प्राप्यते / अथवा प्राप्तेनाप्राप्तेनापि लब्धेनालब्धेनापि येन जैनधर्मेण नरसुरसुखानि प्राप्तानि, तत्र प्राप्तेन यथा लब्धसम्यक्त्वलाभेन धनसार्थवाहेन नरसुखं मिथुनकसुखमप्राप्तेनापि तेनैव तस्मिन्नेव भवे सम्यक्त्वलाभात्पूर्वं प्राप्तेन नरसुखं वीरजीवबलाधिपेनेव, अप्राप्तेन च सुरसुखं "चरगपरिव्वाय बंभलोगो जा" इत्युक्तेर्बहुभिरिव मोक्षसुखं पुनः प्राप्तेनैव प्राप्यते येन धर्मेण यच्च मरुदेवीप्रभृतयोऽलब्धेनापि तेन तदवाप्नुवन्, तत्तेऽपि भावतः प्राप्तचारित्रपरिणामा इति, नवरि पुनः स धर्मो मे मम शरणं भवतु / / 43 / / निद्दलियकलुसकम्मो कयसुहजम्मो खलीकयकुहम्मो / पमुहपरिणामरम्मो सरणं मह होउ जिणधम्मो / / 44 / /