________________ 98 . खण्ड-२ गुण प्रवरसुकृतैः विशिष्टपुण्यैः प्राप्तं लब्धं सम्यक्त्वदेशविरतिसर्वविरतिरूपं जिनप्रणीतं धर्ममिति सम्बन्धः, यतो जीवस्यानादिभवाऽलभ्यस्तैमिथ्यात्वादिभिर्हेतुभिः सदैवावृत्तत्वेन तत्प्राप्तेरतिशयेन दुर्लभत्वात्, यदाह अंतिम-कोडाकोडीए, सव्वकम्माणमाउवज्जाणं / / पलियासंखिज्जइमे, भागे खीणे हवइ गंठी / / 1 / / [वि.आ.भा. 1194] अपव्वेणत्ति पुंज, मिच्छत्तं कुणइ कुद्दवोवमया / अनियट्टीकरणेए उ, सो सम्मं दंसणं लहइ / / 2 / / [वि.आ.भा. 1218] सम्मत्तम्मिय लद्धे, पलियपुहुत्तेण सावउ हुज्जा / / .. चरणोवसमइखयाणं, सागरसंखंतरा हुंति / / 3 / / [वि.आ.भा. 1222] यावत्यां कर्मस्थितौ सम्यक्त्वं लब्धं तन्मध्यात्पल्योपमपृथक्त्वलक्षणे स्थितिखण्डे क्षपिते देशविरतो भवेत्, ततोऽपि सङ्ख्यातेषु सागरेषु क्षपितेषु चारित्रमित्यादि, अतो नाल्पपुण्यैरवाप्यत इत्यर्थः, पुण्यवद्भिः प्राप्यत इत्युक्तम् / तत्र किं सर्वैरपि तैर्लभ्यत इत्याह 'पत्तेहिं त्ति पात्रैरपि भाग्यवद्भिरपि कैश्चिद् ब्रह्मदत्तचक्रयादिभिरिव नवरि पुनर्न प्राप्तं नासादितम्, पात्रत्वं च ब्रह्मदत्तस्य चक्रित्वलाभात्, देवेन्द्रचक्रवर्त्यादिकर्मणां बन्धो भव्यानामेवोक्त इति / तमेवम्भूतं केवलिभिः प्रज्ञप्तं देशितं धर्म श्रुतधर्मचारित्रधर्मरूपं शरणं प्रपन्नोऽहमिति / / 42 / / सोम० अथ धर्मस्यैव माहात्म्यमुपदर्शयन्नाह- . गुण० अथ धर्मस्यैव माहात्म्यमुपदर्शयन् तमेव शरणं प्रतिपित्सुराह पत्तेण अपत्तेण य पत्ताणि य जेण नर-सुरसुहाई / मोक्खसुहं पि य पत्तेण नवरि धम्मो स मे सरणं / / 43 / / सोम० प्राप्तेनाप्राप्तेनापि लब्धेनालब्धेनापि, केन ? येन जैनधर्मेण नरसुरसुखानि प्राप्तानि, तत्र प्राप्तेन यथा लब्धसम्यक्त्वेन धनसार्थवाहेन नरसुखं युगलिकसुखं प्राप्तम्, अप्राप्तेनापि च यथा तेनैव तस्मिन्नेव भवे सम्यक्त्वलाभात् पूर्वम्, प्राप्तेन धर्मेण सुरसुखं बहुभिरपि श्रीवीरजीवनयसारादिभिः / अप्राप्तेन धर्मेण सुरसुखं "तावस जा जोइसिआ चरगपरिव्वाय बंभलोगो जा" इत्याधुक्तेर्बहुभिः कपिलादिभिरिव लब्धं, यद्वा अनेकैः भव्यैः प्राप्तेन धर्मेण नरसुरसुखानि लब्धानि, अभव्यैश्च अप्राप्तेनापि तेन,