________________ अवचूरिवृत्तिसहितं चतुःशरणम् 17 . पडिवनसाहुसरणो सरणं काउं पुणो वि जिणधम्मं / ___ पहरिसरोमंचपवंचकंचुयंचियतणू भणइ / / 4 / / सोम० साधुश्रावकाद्यन्यतमो जीवः प्रतिपन्नसाधुशरणः सन् पुनरपि जिनधर्म शरणं कर्तुं प्रतिपत्तुमिच्छन्नित्यध्याहार्यम्, इदं वक्ष्यमाणं भणति / किंविशिष्टोऽसौ ? प्रकृष्टो हर्षः प्रहर्षः वदनविकाशादिचिह्नगम्यो मानसः प्रीतिविशेषस्तद्वशेन यो रोमाञ्चप्रपञ्चः स एव कञ्चकस्तेनाञ्चिता विभूषिता तनुः शरीरं यस्य स प्रहर्षरोमाञ्चप्रपञ्चकञ्चकाञ्चिततनुः, प्रमोदपूरिताङ्गः सन्नित्यर्थः / / 1 / / गुण० स साधुसाध्वीश्राद्धश्राविकान्यतमो जीवः प्रतिपन्नसाधुशरणोऽङ्गीकृतमुनिशरणः पुनरथशब्दार्थो भिन्नक्रमश्च, ततश्च पुनरथानन्तरं जिनधर्म शरणं कर्तुं प्रतिपत्तुमाश्रयितुमिच्छनित्यध्याहार्यम् / किंविशिष्टोऽसावित्याह-'पहरिसत्ति तत्र वदनविकाशादिचिह्नगम्यो मानसः प्रीतिविशेषो हर्षः प्रहर्षः प्रकृष्टो हर्षः प्रहर्षस्तद्वशेन रोमाञ्चप्रपञ्चो रोमोद्धर्ष उत्कर्षः स एव कञ्चुकश्चोलकंस्तेनाञ्चिता विभूषिता तनूः शरीरं यस्य स प्रहर्षरोमाञ्चप्रपञ्चकञ्चुकाञ्चिततनुः प्रमोदपूरिताङ्गः सनिदं वक्ष्यमाणं भणति / / 4 / / सोम० स यद् भणति तदाहगुण० यच्च ब्रूते तदाह पवरसुकएहिं पत्तं पत्तेहि वि नवरि केहि वि न पत्तं / तं केवलिपनत्तं धम्म सरणं पवनो हं / / 42 / / सोम० प्रवरसुकृतैर्विशिष्टपुण्यैः प्राप्तं लब्धं सम्यक्त्वदेशविरतिरूपं धर्ममिति सम्बन्धः, . अर्धपुद्गलपरावर्त्ताभ्यन्तरीभूतभवैरेव भव्यजीवैरासन्नसिद्धिकैः प्राप्यमानत्वात्, तथा पात्रैरपि भाग्यवद्भिरपि ब्रह्मदत्तचक्रयादिभिरिव कश्चित् नवरीति पुनरर्थे न प्राप्तं नासादितम्, पात्रत्वं ब्रह्मदत्तस्य चक्रित्वलाभात्, देवेन्द्रचक्रवर्त्यादिपदानि हि भव्यानामेव भवन्तीति / तमेवम्भूतं केवलिभिः केवलज्ञानोपलब्धसमस्ततत्त्वैः प्रज्ञप्तं देशितं धर्म श्रुतधर्मचारित्रधर्मरूपं शरणं प्रपन्नोऽहमिति / / 42 / /