________________ . खण्ड-२ चुक्कति प्राकृतत्वाद् च्युतास्तया विरहिता विज्ञातपरमार्थत्वात्तां त्यक्तवन्त इत्यर्थः / कलिमलः पापस्तेन मुक्तास्तद्विवर्जिताः पवित्रचारित्रनीरपूरेण तं प्रक्षालितवन्त इत्यर्थः। विविक्तं अदत्तादानपरिहारेणात्मनः पृथक्कृतं चौरिक्यं चौर्यं यैस्ते, तथा स्वामिजीवजिनगुर्वाद्यनुज्ञातभक्तपानादिग्रहणेन सर्वथाऽपि तत्परिहतवन्त इत्यर्थः / पातयति जीवानिति पापम्, तस्य रजः कश्मल: पापरजश्च तत्सुरतं मैथुनं तेन रिक्तास्तत्त्यागिनो नवगुप्तिसनाथब्रह्मव्रतचरणात् / यत एवंभूता अत एव साधूनां गुणाः साधुगुणा व्रतषट्कादयस्त एव रत्नानि तैश्चच्चिक्कत्ति दीप्तिमन्तः, तैर्मण्डिता इत्यर्थः। ते साधवः शरणमिति / / 39 / / सोम० नन्वत्र साधुशरणाधिकारे ज्येष्ठपदवर्तित्वेनाचार्यादयः कथं गृह्यन्ते ? इति संशयापनोदायाह साहुत्तसुट्ठिया जं आयरियाई तओ य ते साहू / साहुभणिएण गहिया ते तम्हा साहुणो. सरणं / / 40 / / सोम० साधुत्वे साधुस्वरूपे समभावपरसाहाय्यदानमुक्तिसाधकयोमसाधनादिलक्षणे सुष्छु अतिशयेन स्थितास्तत्सेविन इत्यर्थः / यद्वा साधुत्वेन सुस्थिताः समाहिताः साधुत्वसुस्थिताः यद् यस्मात्कारणादाचार्यादयः पञ्चापि ततश्च ते पञ्चापि साधव उच्यन्ते, तत्कार्यकरणात् / तस्मात्साधुमणितेन साधुसत्कोच्चारेण गृहीतास्ते सर्वेऽप्यतीतानागतवर्तमानकालभाविनोऽत्राधिकारे मम शरणं भवेयुरिति / / 40 / / गुण साधुत्वे साधुस्वरूपे समभावपरसाहाय्यपरोपकारलक्षणे सुष्ठु अतिशयेन स्थिता अध्यवसिता व्यवस्थिता यद् यस्माद्धेतोराचार्यादयः आचार्योपाध्यायप्रवर्तकस्थविरगणावच्छेदिनस्ततस्ते पञ्चापि साधवस्तत्कार्यकरणात् साधुभणितेन साधुसत्कारेण गृहीता ग्रहणमागतास्तस्मात्ते सर्वेऽप्यत्राधिकारोक्तगुणगरिष्ठा अतीतानागतवर्तमानकालभाविनोऽतीतानागतयोरनन्ता वर्तमानोत्कृष्टकाले नवकोटीसहस्रम्, जघन्ये तु कोटीसहस्रद्वयम्, ते सर्वे साधवो मम शरणं भवेयुः / / 40 / / सोम० उक्तं तृतीयं शरणमथ चतुर्थं शरणमाहगुण० चतुर्थशरणप्रतिपादनायाह