________________ अवचूरिवृत्तिसहितं चतुःशरणम् लभ्यन्ते इति तद्व्यवच्छेदायाह- 'जिणमयंमित्ति जिनमते जिनशासने ये आचार्योपाध्यायाः, एतद्ग्रहणं चोपलक्षणम्, तेन प्रवर्तकस्थविरगणावच्छेदका अप्यत्र गृहीता ज्ञातव्याः / सर्वशिष्यान् तपःसंयमव्यापारेषु प्रवर्तयन्तो गणतप्तिकराः प्रवर्तका उच्यन्ते / प्रवर्तकव्यापारितार्थेषु सीदमानान् साधून् स्थिरीकुर्वन्तः स्थविराः / गच्छयोग्यक्षेत्रोपध्यादिसम्पादनार्थं नवनवक्षेत्रविहारकारिणो गणावच्छेदकाश्च / ते च सर्वे केवलिप्रभृतिसाधवः शरणं भवन्तु / / 32 / / गुण० केवलमसहायं ज्ञानं मत्यादिज्ञानानपेक्षं सर्वद्रव्यसर्वपर्यायादिविषयं ज्ञानं विद्यते येषां ते केवलिनः। अवधिर्मर्यादा रूपिद्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः, परमश्चासाववधिश्च परमावधिः, स च क्षेत्रतो लोकप्रमाणासङ्ख्येयालोकाकाशखण्डप्रमाणः, कालतोऽसंख्येयोत्सर्पिण्यवसर्पिणीविषयः, द्रव्यतो रूपिद्रव्यप्रभृति यावत्परमाणुदर्शी, भावतः सामान्येनानन्तपर्यायपरिच्छेदको विशेषतः परमाणोरपि चतुष्पर्यायनिर्णयकारी, परमावधिश्चावश्यमन्तर्मुहूर्तेन केवली भवति, तद्योगात्साधवोऽपि परमावधयः, उत्कृष्टावधिसाधुभणनेन जघन्यमध्यमावधयोऽप्यन्तर्भाविता ज्ञेयाः / विपुला मतिर्येषां ते विपुलमतयः, अत्रापि विपुलमतिभणनेन ऋजुमतयोऽप्यन्तर्भाविताः, एतौ च मनुष्यक्षेत्रान्तर्वतिसंज्ञिपञ्चेन्द्रियमनोद्रव्यविषयौ / श्रुतं कालिकोत्कालिकाङ्गप्रविष्टानङ्गप्रविष्टादिलक्षणं धरन्ति योग्यशिष्यप्रदानेन तस्यावस्थितिं कुर्वन्तीति श्रुतधराः प्रवचनव्याख्याननिपुणाः, ते एवम्भूताः श्रुतधराः / तथा आचर्यते आसेव्यते ज्ञानार्थिभिरित्याचार्यः / उपेत्यागत्य अधीयते यस्मादित्युपाध्यायः / इत्यनया व्युत्पत्त्या लौकिकाचार्योपाध्यायाः कलाचार्यादयोऽपि लभ्यन्त इति तद्व्यवच्छेदायाह - जिनमते जिनशासने ये आचार्योपाध्यायाः, एतेन मुख्यानां ग्रहणात्प्रवर्तकस्थविरगणावच्छेदिनोऽपि ज्ञातव्याः / ते च सर्वे केवलिप्रभृतिसाधवो मम शरणं भवन्त्वित्यर्थः / / 32 / / चउदस-दस-नवपुव्वी दुवालसिकारसंगिणो जे य / जिणकप्पाऽहालंदिय परिहारविसुद्धिसाहू य / / 33 / / सोम० तथा चतुर्दश पूर्वाणि विद्यन्ते येषां ते चतुर्दशपूर्विणः श्रीप्रभवादयः / दशान्येव पूर्वाणि विद्यन्ते येषां ते दशपूर्विणः श्रीआर्यमहागिर्यादयः। अन्त्यानि चत्वारि पूर्वाणि प्रायः समुदितान्येव व्यवच्छिद्यन्ते इति चतुर्दशपूर्व्यनन्तरं दशपूर्विणोऽभिहिताः / तथा