________________ खण्ड-२ त्रिविधं त्रिविधेन रक्षाकरणात् / कुगतिरेव सिन्धुः कुगतिसमुद्रो वा तस्यास्तस्य वा पारं तीरं गच्छन्तीति पारगास्तीरवर्तिनः कटाक्षीकृतसुगतित्वात् / भागोऽचिन्त्या शक्तिर्महान् भागोऽतिशयविशेषो येषां ते / तथा ज्ञानादिभिरेव ज्ञानदर्शनचारित्रैः शिवसुखं साधयन्ति ये ते शिवसुखसाधकाः, हत्वा जीवसहस्राणि कृत्वा पापशतानि च / स्नात्वा गङ्गाजले पूते यान्ति जीवाः शिवालयम् / / इत्यादिना यदुच्यते तीर्थान्तरीयैस्तन्निरासः कृतः / ते एवंविधाः साधवो मम शरणं भवन्तु / / 31 / / सोम० साधुभेदानाहगुण साधव एव ये प्रत्यक्षज्ञानादिसम्पदुपेतास्तान् सार्धगाथया-ऽऽह केवलिणो परमोही विउलमई सुयहरा जिणमयम्मि / आयरिय उवज्झाया ते सव्वे साहुणो सरणं / / 32 / / सोम० केवलमसहायं मत्यादिज्ञानानपेक्षं सर्वद्रव्यपर्यायादिविषयं ज्ञानं विद्यते येषां ते केवलिनः / 'परमोहि 'त्ति अवधिर्मर्यादा रूपिद्रव्येषु प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः, परमश्चासाववधिश्च परमावधिः यदुत्पत्तेरनन्तरमवश्यमन्तर्मुहूर्तेन केवली भवति उत्कृष्टमवधिज्ञानमित्यर्थस्तद्योगात्साधवोऽपि परमावधयः, उत्कृष्टावधिसाधुभणनेन जघन्यमध्यमावधयोऽपि साधवोऽन्तर्भाविता ज्ञेयाः / 'विउलमइत्ति मनःपर्यायज्ञानं द्विधा ऋजुमतिविपुलमतिभेदात्, तत्र विपुला मतिर्येषां ते विपुलमतयः, विपुलमतिग्रहणेन ऋजुमतयोऽपि गृहीता ज्ञातव्याः, द्वयेषामप्येषां मनुष्यक्षेत्रान्तर्वतिसंज्ञिपञ्चेन्द्रियमनोद्रव्यपरिच्छेदकत्वात्, बह्वल्पपर्यायग्रहणादिनैव विशेषात् / तथा श्रुतं कालिकोत्कालिकाङ्गप्रविष्टानङ्गप्रविष्टादिलक्षणं सूत्रार्थोभयरूपं धरन्ति योग्यशिष्यप्रशिष्यादिप्रदानेनाव्यवच्छिन्नं कुर्वन्तीति श्रुतधराः / सामान्यतः सर्वेऽपि विशेषेण तु आचर्यन्ते आसेव्यन्ते मोक्षार्थिभिरित्याचार्याः पञ्चविधाचारधारिणः सूत्रार्थोभयवेदिनो गच्छावलम्बनभूताः षट्त्रिंशद्गुणवन्तोऽर्थव्याख्यानकारिणः / उपेत्याऽऽगत्य अधीयते येभ्य इत्युपाध्यायाः सूत्रार्थोभयवेदिनो द्वादशाङ्गसूत्राध्यापका उपाध्यायाः / एते च आचार्योपाध्यायाः सामान्यतो लौकिकाः कलाचार्यादयोऽपि