________________ अवचूरिवृत्तिसहितं चतुःशरणम् स मेदिनीमिलत्सुप्रशस्तमस्तकः / एवंविधः स साधुगुणरागी भूतलन्यस्तमौलिः सन् तत्र प्रस्तावे इदं वक्ष्यमाणं भणति / / 30 / / गुण० नया नैगमादयस्तैरुपलक्षितं यद् ब्रह्म श्रुतज्ञानं द्वादशाङ्ग 'नयभङ्गप्रमाण गमगहन मितिवचनात् तस्य नयब्रह्मणो ये हेतवः कारणभूताः साधुगुणा विनयादयो विनयगुणसम्पन्नस्यैव येनान्यान्यगुणावाप्तिः, . विनयफलं शुश्रूषा गुरुशुश्रूषाफलं श्रुतज्ञानम् / / ज्ञानस्य फलं. विरतिविरतिफलं चाऽऽश्रवनिरोधः / / तेषु नयब्रह्महेतुषु साधुगुणेषु जनित उत्पादितोऽनुरागो बहुमानो यस्य स नयब्रह्महेतुसाधुगुणनितानुरागः, स शरणं प्रतिपत्ता, केनास्यानुरागः कृतः ? इत्याहसिद्धशरणेन / तथा मेदिन्यां मिलत् लुठत् सुप्रशस्तं भक्तिभरभासुरं मस्तकं यस्य स मेदिनीमिलत्सुप्रशस्तमस्तकः गुरुपादार्पितमस्तक इत्यर्थः / स एवंविधः साधुगुणरागी भूतलन्यस्तमौलिरिदं वक्ष्यमाणं भणति / / 30 / / सोम० यदयं भणति तनवभिर्गाथाभिराहगुण० यदयमाचष्टे तन्नवभिर्गाथाभिराह जियलोयबंधुणो कुगइसिंधुणो पारगा महाभागा / नाणाइएहिं सिवसुक्खसाहगा साहुणो सरणं / / 31 / / सोम० 'जियलोय'त्ति, जीवलोकस्य प्राणिवर्गस्य षड्जीवनिकायात्मकस्य त्रिविधं त्रिविधेन - रक्षाकारित्वात् बान्धवा इव बान्धवा ये / तथा कुत्सिता गतिः कुगतिः नरकतिर्यगादिरूपा सैव सिन्धुः महानदी समुद्रो वा तस्यास्तस्य वा पारं तीरं गच्छन्तीति पारगास्तीरवर्तिनः सुगतिगामित्वादेव साधूनाम् / तथा महान् भागोऽतिशयविशेषो येषां ते तथाऽनेकलब्धिसम्पन्नत्वात्तेषाम् / तथा ज्ञानादिमिर्ज्ञानदर्शनचारित्रैरेव शिवसौख्यं मोक्षशर्म साधयन्ति ये ते शिवसौख्यसाधकाः, एतेन तीर्थान्तरीयैर्यत्स्नानादिक्रियाभिर्मोक्षसाधनमुक्तं तन्निरासः कृतो द्रष्टव्यः / ते एवंविधाः साधवो मम शरणं भवन्तु / / 31 / / गुण० जीवलोकस्य प्राणिवर्गषट्टिनकायात्मकस्य बान्धवा इव बान्धवा ये वर्तन्ते तेषां